________________
नवमं व्याख्यानम् ।
(३१५) कार । एतत्स्वरूपं तत्रत्यास्थाहड-नागदेवादयः श्रीमन्तः श्रावका देवसूरिं सूचयामासुः । सूरिरुवाच-कामपि चिन्तां मा कुरुत, सर्व गुरुदेवकृपया भद्रमेव भविष्यति, अत्र मा संशयीध्वम् । वादिनः पक्षे केशवादिविद्वांसः कतिपयी साधारणजनताऽप्यासीत् । सूरिपक्षीयाश्च महाकविश्रीपाल-भानुप्रमुखा विद्वत्तमा बभूवुः। महर्षि-उत्साहसागररामा एते त्रयः प्राज्ञाः सभापतेः सिद्धराजस्य सम्मतिदाया न्ययुज्यन्त । ततो विक्रम सं० ११८१ वर्षीयवैशाख्यां पौर्णमास्यां राजकीयवादशालायां सभ्यसभापतिविहितोचितप्रबन्धे स्त्रीनिर्वाणोपरि द्वयोर्विचारणा प्रावर्तिष्टतमाम् । तत्र सुचिरं सयुक्तिसूक्तियुक्त्या खण्डनमण्डने विधाय, सभ्यान् सुरञ्जयन् देवसूरिः प्रान्ते कुमुदचन्द्रमनुत्तरप्रमाणपटलेन निरुत्तरीकृत्य जेजयीति स्म । ततः सभापतिना समेषां सभ्यानां सहानु. भूत्या देवसूरये विजयपत्रमदायि । आज्ञापि च पाखण्डिनं कुमुदचन्द्रं तन्नगरीमुज्झित्वाऽन्यत्र निर्गन्तुम् । व्यतानि किलैषा चर्चा स्वस्वग्रन्थेषु श्रीहेमचन्द्रसूरि-श्रीचन्द्रसूरि-राजवैतालिकादिविद्वद्भिः। प्रादायि च राज्ञा सिद्धराजेन देवसूरये विजयपारितोषिकं मुद्रालक्षम् । तदेष सूरिनाs. ग्रहीत्, ततस्ताभिरेव लक्षमुद्राभी राजा गुर्वाज्ञया श्रीआदिनाथप्रासादं कारयित्वा तत्र विक्रमसं० ११८३ वर्षे देवानरिप्रमुखैश्चतुर्भिराचार्यैरादिनाथीयबिम्बस्याऽञ्जनशलाकया सह प्रतिष्ठां कारितवान् । कृतवांश्चायं
१ असौ प्राग्वाटवंशीयपरमाईत-महाकविलक्ष्मणस्य सूनुरभूत् । एनं जैना इतराश्च विद्वांसोऽणहिल्लपतिसिद्धराजसभायां महाकवि--कविराज--कविचक्रवर्त्ति---कवीन्द्रचूडामणि इन्युपाधिभिर्विभूषयामासुः । सिद्धराजोऽपि बालसखत्वाद् भ्रातृशब्देनैव सदाऽऽह्वयति स्म, पासीच संस्कृत-प्राकृतयोरद्वितीयो विद्वान् , बभूवांश्चासौ सिद्धराज-कुमारपालयोः प्रेमपा. त्रम् , लक्ष्म्याः सदनश्च । सम्प्रत्यपि तद्विद्वत्तां तद्रचितेपूपलब्धौ चतुर्विंशतिजिनयमकस्तुति वडनगरप्राकारप्रशस्तिनामको ग्रन्थौ व्यक्तः । अमुष्य पुत्रः सिद्धपालः पौत्रो विजयपालश्च महाकवी विद्वत्तमौ बभूवतुः । एषां मध्ये लक्ष्मणो विक्रमवत्सरतः ११००-११५०, श्रीपालः ११५१-१२१०, सिद्धपालः १२११-१२५०, विजयपालः १२५१-१३०० समय आसीत् ।
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only