________________
(३१४)
श्रीकल्पसूत्रार्थप्रबोधिनी. पयुज्येत । सोऽवदत्-जिनसदनमेव निर्मापय, अमुना शुभकृत्येन यथा लक्ष्म्याः सदुपयोगो जायते, तथा नान्येन केनापि । तदादेशेन श्रेष्ठी हिमाचलोपमं महोन्नतं महाहमणिगणमण्डितं चैत्यं श्रीवर्द्धमानप्रभोरद्भुतं कमनीयतमं बिम्बं च निरमीमपत् । विक्रम सं० ११७८ वर्षे मुनिचन्द्रगुरौ समाधिना द्यामुपगते सं० १९७९ तमे च नाहडश्रेष्ठी तत्र मन्दिरे वादिदेवसूरिणा महावीरप्रभोविम्ब सहाञ्जनशलाकया प्रातिष्ठिपत्। तदनन्तरं सूरिस्ततो विहृत्य धन्वनि नागोरनगरमायातवान्।तत्रा. ऽऽह्लादनो राजा दिदृक्षया तत्पार्श्वमागतवान् । तदोक्तवांश्च तद्वन्दनां विधाय देवबोधः
यो वादिनो द्विजिह्वान् , साटोपं विषममानमुगिरतः । शमयति स देवसूरिनरेन्द्रवन्धः कथं न स्यात् ॥ १ ॥
अमुनोक्तेनाऽऽह्लादनः क्षितिपतिराचार्यगुणान् समवगत्य कतिचिद् दिनानि तत्रैव तमतिष्ठिपत् । अत्रान्तरे पाटणपुराधीशः सिद्धराजश्चतुर
पृतनस्तत्रागात् , सर्वतो नगरीमवाऽरुणच । परन्तु तत्र विराजमानं देवसूरिं श्रुत्वा यथाऽगात् , तथैव निजपुयां परावर्तत । ततः स्वमन्त्रिणं प्रेष्य देवसूरि निजपुर्यामजूहवत् । आगच्छदाचार्योऽपि ततो विहृत्य पट्टण. पत्तने । तस्थिवांश्चात्रैव बहून् वासरान् नरपतरेत्याग्रहात् । ततः सिद्धराजः सह चतुरङ्गया चम्बा समागत्य नागोरे स्वाऽधिपत्यं चक्रिवान् । अथैकदा सङ्घाग्रहादसौ पट्टणपत्तनाद्विहृत्य कर्णावतीपुरीमेत्य चतुर्मासीमस्थात् । तत्र जयकेशिराजस्य गुरुः कुमुदचन्द्रो दिगम्बरस्तेन सत्रा चर्चाचिकीरध्यजायत, परन्तु समयाऽनुकूल्यं विमृश्य तमुवाच देवसूरिःएवमेव कामयसे चेच्चतुर्मास्याः परं पट्टणपुराधीशसिद्धराजस्य समज्यायां नौ भाविनीयं संख्या श्रेयस्करीति । कुमुदचन्द्रोऽपीमामुररीकृतवान् । अथैतावुभावपि चतुर्मासीपूां पट्टणनगरमयाञ्चक्राते । तत्र कुमुदचन्द्रः सिद्धराजस्य गाङ्गलीप्रमुखकतिपयमन्त्रिणो द्रव्यप्रदानेनाऽऽत्मसाच्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org