________________
नवमं व्याख्यानम् ।
एकद्वित्रिचतुःपञ्च षण्मे न कमनेनकाः । देवबोधे मयि क्रुद्धे, पण्मेन कमनेन काः ॥ १ ॥
S
इमं श्लोकं लिखित्वा तत्रत्यान् सकलान् विदुष उवाच - भोः ! पण्डिताः ! ' श्लोकमेनं षण्मासैरपि व्याख्यात, तदभावे विजयपत्रं मे ददत |' परिपूर्णेऽपि तदवधौ कोऽपि विद्वांस्तच्छ्रेोकार्थं कर्त्तुं नाऽचीकमत । तदवसरे राजानं गदितवानम्बाप्रसादो मन्त्री - स्वामिन् । एतस्यार्थं वक्तुमको वादिदेवसूरिरेव शक्तिं बिभर्त्ति नाऽपरः । स चाऽधुनाऽत्रैत्र जैनीयोपाश्रये वर्तते, अतः स एव पृच्छ्यताम् । नरनाथस्तदैव श्लोकेन सह प्रार्थनापत्रं तदन्तिके प्राहिणोत् । देवसूरिरपि तव गुरोरादेशमा श्रित्य " एकं प्रत्यक्षमात्रं चार्वाकीयम् द्वे - प्रत्यक्षानुमाने सौगतवैशेषिकयोरभिमते, त्रयः - प्रत्यक्षानुमानाऽऽगमाः कापिलाः, चत्वारःप्रत्यक्षानुमानोपमानाऽऽगमा नैयायिकीयाः, पञ्च- प्रत्यक्षानुमानोपमानापत्त्याऽऽगमाः प्रभाकरीयाः, षट्- प्रत्यक्षानुमानोपमानाऽर्थापत्त्याऽऽगमाऽभावा मैमांसका एते सकलाः प्रागुक्ता षण्मा प्रमाणं यस्य तादृशे मयि देवबोधे, पण्डिते, कुद्धे सति को ब्रह्मा च मः शिवश्च नस्तरणिश्च, ईर्लक्ष्मीस्तस्या नो नेता भर्त्ता विष्णुश्चैतेषां द्वंद्वे ते ते च कान्ति शब्दायन्त इति का जल्पाकाश्चेति कर्मधारये ' कमनेनकाः ' ब्रह्म- शिव-सूर्य- विष्णवो वक्तारो न भवन्ति, किन्तु मूकन्त्येव । तर्हि षण्मासा माऽवधिर्यस्य तेन कमनेन - कामुकेन मनुष्येण का वार्त्ताः ?, अमीषां का गणनाः इति तदर्थं वैशद्येन विलिख्य राज्ञः समीपे प्रैषीत् । तद्दर्शनेन देवबोधप्रभृतिविद्वन्मण्डली सकलापि वादिदेव सूरिमतोष्टवीत् ।
""
Jain Education International
( ३१३ )
तत्रत्यः सर्वर्द्धिकः श्रष्ठी नाहडाSSख्यः समेत्य नमस्कृत्य च सूरिमाचष्ट - प्रभो ! कोऽपि मे शुभादेशः क्रियताम्, येन मे लक्ष्मीः सदु
४०
For Private & Personal Use Only
www.jainelibrary.org