________________
( ३१२)
श्रीकरूपसूत्रार्थप्रबोधिनी. विपश्विद्वरान् , नागपुरे गुणचन्द्रदिगम्बरम् , चित्रकूटे भागवत-शिवभूतिम् , गोपगिरौ पं० गङ्गाधरम् , धारापुर्यां धरणीधर भट्टाचार्यम्, पुष्करे पद्माकरभट्टम् , भृगुक्षेत्रे कृष्णभट्ट चर्चायामजैषीत् । लेभानश्च वादिविजयीत्युपाधिम्। आसंश्चाऽमुष्य विमल वन्द्र-प्रतिभानिधानहरिचन्द्र-पं० सोमचन्द्र-कुलभूषण-पार्श्वचन्द्र-प्राज्ञशान्तिचन्द्र--यशोवदशोकचन्द्र नामानः सप्त परमसखाः । वादिविजयिनमेनं रामचन्द्रमुनिपुङ्गवं योग्य तमं विदित्वा मुनिचन्द्रसुरिणा श्रीसङ्घकृतमहामहेनैतकस्मै सं. १७४ शरद्याचार्यपदं प्रादायि, अधारि च वादिदेवसूरिः इत्यभिधानम् । अमुष्मिन्नेवाऽवसरे वादिदेवसूरिः श्रमायै पितृष्वस्रे महत्तरापदं श्रदाय चन्दनबालेति तदभिधानमकरोत् । तदनु धवलकपुरं ( धोलकं ) गत्वो. दयश्रावकेन कारिते — ऊदावसही' नाम्ना प्रसिद्ध चैत्ये श्रीसीमन्धर स्वामिनो बिम्बं प्रातिष्ठिपदसकौ ।
अथैकदाऽसौ विहरन्नबुंदाचलं यात्रार्थमागात् , कतिपयैः श्रावकैरम्बाप्रसादमन्त्रिणा च सार्धमुपरि समारोह । अधिार्गमम्बाप्रसादो मन्त्री प्रचण्डेन दन्दशकेनाऽदृश्यत, तव वादिदेवसृरिश्चरणोदकेन तद्विषमुददीतरत् । ततः सानन्दाः सर्वे युगादिदेवस्य यात्रामकार्षः । अत्राऽम्बादेवी प्रत्यक्षा सती वसूरिमभ्यधात्- त्वयि सपादलक्ष देशे तिष्ठति सति त्वद्गुरुर्मुनिचन्द्रसूरिर्मामुवाच-' यन्मामकमायुरष्टमासिकमेवाऽस्ति ' अतएवाऽन्यत्र कुत्राप्यगच्छन् केवलमणहिल्लपुरमेव याहि' इत्थं व्याहृत्य देवी तिरोहितवती । ततोऽसौ देवीगिराऽप्रतिबद्वविहारेण शीघ्रमेवाऽणहिल्लपुरे गुरोः पार्श्वमागतवान् । तदैव भागवतः कश्चिद्देवबोधनामा विद्वांस्तत्राऽऽगत्य राजद्वारोपरि
१ असौ वादिवेतालश्रीशान्तिसूरेः प्रभाणशास्त्रं सम्थगधीत्य · तार्किकशिरोमाण' रिति पदभागासीत् । अतएबाऽमुके निजान्तेसदि रामचन्द्रे स्वभ्यस्तं समस्तं प्रमाणशास्त्रंन्यषत्त ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org