________________
नवमं व्याख्यानम् ।
१२९ श्रीवादिदेवसूरिनिबन्धः
तत्र गुर्जरदेशे अष्टादशशतीमण्डलान्तर्गतायां मद्दाहृतनगर्यां प्रा ग्वाटज्ञातीयवीरनागश्रावकस्य धर्मपल्या जिनदेव्याः कुक्षेः सं० ११४३ वत्सरे समुत्पेदिवान् भवान् । आसीच्च गार्हस्थ्ये तत्रभवतां ' पूर्णचन्द्र इति प्रसिद्धाभिधानम् । तत्र महामार्यामुत्पन्नायां सपरिकरोऽयं श्रेष्ठी नगरादमुष्मान्निर्गत्य दक्षिणगुर्जरीये पाटनगरस्तम्भतीर्थे ( भरुचनाम्ना प्रसिद्धे ) समाययौ । तदाऽप्रतिबद्धविहारी गुरुर्मुनिचन्द्रसूरिरपि तत्राऽऽग तवान् । अमुष्य वचसा तत्रत्यजैनसङ्घः सत्कृतवानेनं वीरनागम्, दत्तवांश्चाऽमुकस्मै सम्यगाश्रयः । एतर्हि पूर्णचन्द्रः शिशुरवोभोदष्टवर्षीयान् । एनमालोक्य भाग्यशालिनं शासनप्रभावकञ्चाऽवगत्य मुनिचन्द्रसूरिवरनागं पूर्णचन्द्र ययाचे । श्रेष्ठिना व्याहारि-स्वामिन् । एक एवास्ति मे पुत्रः, वार्द्धक्ये चाऽयमेव ममाऽऽधारो भविता, तथापि भवदादेशं न लुम्पानि । तत्रभवतां जिघृचैव चेतर्हि मयादत्तमेवैनमवगच्छ । सूरिरुवाच- मद्गच्छे मुनीनां पञ्चशती विद्यते तान् सर्वान् पुत्रानेव जानीहि, परमयं पूर्णचन्द्रः शासनप्रभावको भवितेत्यसौ दातव्य एव वरम् । गुर्वादेशं जीवितादप्यधिकं पाल्यम्, इति मन्वानः सुश्रावको वीरनागः स्वस्त्रियं सर्वं प्रतिबोध्य पूर्णचन्द्रं तस्मा अदात् । मुनिचन्द्रसूरिस्तस्मै नवाब्दाय संवत् १९५२ तमे हायने दीक्षां दत्तवान् धृतवांश्च रामचन्द्र' इति तन्नाम | तदनु गुरुदेवाऽसीमकृपयाऽचिरादेवैष व्याकरणकाव्यालङ्कारतर्कज्योतिः प्रमुखानि सम्यगधीत्य स्वपरसमयवेदिनामसाधारण्यमाप । ततोऽसौ रामचन्द्रमुनिर्गुर्वादिष्टो धवलकपुरे द्वैतवादिशैववादिन: कोविदपुङ्गवान्, काश्मीरे, सागरे, सत्यपुरे, चाऽनेकशो
6
Jain Education International
9
( ३११ )
१ पुरा किलाऽर्बुदाचलोपत्यका भूभागो ' अष्टादशशती, देशतया व्यवाहियत, प्रासिध्यच्च सर्वत्र गुर्जरीयैकप्रान्तौपम्येन । २ तदयदक्षिणोपत्यकायां प्राकाराऽऽकारया गिरिमालया, परिवेष्टित इदानीन्तन ' मदुआजी' ग्राम एव तदानी 'मद्दाहृत' नाम्ना प्रथितो धनजनसमृद्धचा सम्पन्नश्वाऽऽसीत् ।
For Private & Personal Use Only
www.jainelibrary.org