________________
( ३१० )
श्री कल्पसूत्रार्थप्रबोधिनी.
निर्माप्य तत्प्रतिष्ठां व्यधत्त । प्रान्ते च श्रुतोपयोगतः स्वायुःक्षयं विदिवा गुरुसेवायां तिष्ठन्नसौ हरिभद्राचार्यः समाधिना स्वरगात् । बभूवांश्चैष वादी, प्रावचनिको, नैमित्तिकः, प्रभावकश्च ! विचारसारप्रकरणजैनपट्टावली लेखानुसृत्या विक्रमसं० ५८५ तमेऽब्दे स्वर्गमनमभूदेतस्येति प्रतीयते । परमेतद्विरचितग्रन्थेषु धर्मकीर्त्ति - कुमारिलप्रमुखानां नामोलेखो वर्वर्त्ति, समुपलभ्यते च जिनभद्रगणिक्षमाश्रमणरचित - विशेषाऽऽवश्यकभाष्यादिग्रन्थाऽवतरणम् । अत एतस्य स्वर्गवाससमयो विक्रम सं० ७८५ इत्येव निश्वेतव्यः । विद्याधराऽन्वयजनिमानयमन्तिमः श्रुतधरो बभूवेति विदाङ्कुर्वन्तु सुधियः । द्वितीयो हरिभद्रसूरिर्वैक्रमीये २६२ तमे हायने बभूव । तदन्तेवासी सिद्धर्षिगणी बौद्धानां समीपमे कविंशतिवारान् गमाऽऽगमौ व्यधव। तत्प्रतिबोधाय ललितविस्तराऽऽख्य शक्रस्तववृत्तिं रचितवान् । तृतीयस्तु विक्रमस्य द्वादशशताब्द्यामभूत् । एतद्रचित- मुनिपतिचरित्रादयो ग्रन्था अद्याप्युपलभ्यन्ते ।
-
एवं जिनभद्रगणिक्षमाश्रमण-शीलाङ्काचार्याऽभयदेवसूरि-मलयगिरिप्रभृतयष्टीकाकाराः स्थविराः सकला अपि मान्यतमा अभूवन् । अबोभोच्च पादलिप्ताचार्यः, येन पादलेपादाकाशे समुड्डीय शत्रुञ्जयगिरनार – नन्दिगिर्यष्टापद — सम्मेतशिखरादिबहुषु तीर्थेषु गत्वा जिनांश्च वन्दित्वा पारणमकारि : बोभवाञ्चकार श्रीबप्पभट्टिसूरिर्येन प्रतिबोधितो गोपनगराधिपतिरामराजस्तदुपदेशाच्छत्रुञ्जय तीर्थं समुद्दधे । अथाभिग्रहवतो व्रजतस्तस्य बप्पभट्टिसूरे स्तमभिग्रहं खिवरसंडीनगरे शत्रुञ्जयावतारप्रासादं प्रतिमापादुकाभ्यां विभूषितं प्रदर्श्य देवता पूरयामास । तत आमभूभुजा गोपनगरे वसूत्तरशतदन्तिदघ्नप्रासादं निर्माय तत्राष्टादशभारस्वर्णमयी सर्वार्थसम्पद्विधायिनी श्रीवीरविभोः प्रतिमा स्थापिता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org