________________
नवमं व्याख्यानम् ।
(३०६) दत्ता शिष्यौ तदन्तिकं प्रैषीत् , तत्पत्रं वाचयित्वा तत्क्रोधः शशाम । सति च कोपोपशमे गुरोः पार्श्वमागत्य गुरूपदिष्टां कृतैतत्पापशुख्यर्थ घोरतरां तपस्यामारेभे हरिभद्राचार्यः, परन्तु मनसि निरपत्यताप्रयुक्तशोकसागरः प्रतिदिनमववधीदेव । तदाऽम्बिकादेवी प्रत्यक्षीभूय तमु. क्तवती-भद्र ! त्वया पुरा जन्मनि कुलवृद्धिकरं कर्म नोपार्जि, अतस्तदर्थ मा शोचीः, ग्रन्धानां रचनामेव यशस्करी सुसन्तति जानीहि । ' ततोऽनया देवीगिरा तच्छोकमपनीय 'दशवैकालिक-न्यायप्रवेशाऽऽवश्यकप्रमुखानां कियतां ग्रन्थानां याकिनीपुत्रेति नामाङ्कताष्टीकाः, समरा. दित्यचरित्राऽनेकान्तजयपताकाप्रभृतिभवविरहाङ्कितचतुर्दशशतग्रन्थरत्नानि निरमिनोत् । तांश्च ग्रन्थान् कार्यासिको जिनभद्र-वीरभद्रयोः पितृव्यः सल्लिगाऽऽख्यश्च तनीतनाञ्चक्राते । किश्चायं महानिशीथसूत्रं समुद्धृत्य भावुकांश्च प्रतिबोध्याऽतिविशालचतुरशीतिजिनमन्दिराणि
१ तदवसरे याकिनी महत्तरा श्राविकया साधं दिक्षया तत्रागत्य तमप्राक्षीत्-एषा श्राविका स्वहस्तेन कमप्येकं पञ्चेन्द्रिय जीवं जिहिंस, तत्प्रायश्चित्तं किमस्ति ? । आचार्य उवाच-' पञ्चकल्याणकं तपः ' तयोक्तम्-अस्या एकस्मिन् पश्चेन्द्रियजीवघाते सतीदृशं प्रायश्चित्तं लग्नं चेत्त्रया बहवः सौगता आहूयात. हूयन्ते चेदानीं तर्हि तव कियता प्रायश्चित्तेन भवितव्यम् । इत्याकण्यव समिद्धमपि कोपं तत्क्षणमुज्झाञ्चार सः । इत्येकस्यां कथायां दृश्यते । प्रत्यन्तरे च-हरिभद्राचार्ये सौगतानेवं जुह्नति सति कोऽप्येको विज्ञः सुश्रावकस्तत्रागत्य तद्धवनमालोक्य महाश्चर्य मन्वान उच्चैरिमां गाथामपठीत्
जइ जलइ जलं लोए. कुसत्यपवणाहो कसायग्गी ।
तं जुत्तं । जिणवयण अमियसित्तो चिय पजलाई ॥ १ ॥
यदि लोके कुशास्त्रपवनाऽऽहतः कषायाग्नि जलं-जडं डलयोरैक्यात् , ज्वलति-तपति तद्युक्तम् । जिनवचनाऽमृतसिक्तः. न चिय-नैव प्रज्वलतीति । एनां गाथां शृण्वन्नेब कोपाद्विरराम हरिभद्रसूरिः ।
१ हरिभद्ररचितग्रन्थानां १४४० राजशेखरसूरिकृत प्रवन्धप्रकाशे । रत्नशेखरसूरिकृत - श्राद्धप्रतिक्रमणार्थदीपिका' विजयलक्ष्मीसूरिरचितोपदेशप्रासाद -..खरतरगच्छीयपट्टावलीषु १४४४ संख्यानमुदलेखि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org