________________
( ३०८)
श्रीकल्पसूत्रार्थप्रबोधिनी. थाऽकरोत् । इतश्च समागतास्ते सुभटा उचितवाणावलीभिः शरीरं चालनीकल्पं विधाय प्रान्ते हंसं मारयित्वा समागत्य च शूरपालराजान्तिकं परमहंसं ययाचिरे, परमेनं नरपति ऽदात् । प्रान्ते शूरपालनृपतेः समक्षं परमहंसेन सत्रा शास्त्रचर्चा निरधारि । तदोपतस्थिरे चाऽतिप्रौढाः सौगताचार्याः शास्त्रार्थचिकीर्षया । परममूनशेषांस्तदम्बादेवीदर्शितयुक्त्या परमहंसः सुचिरं तैः सत्रा चर्चा कृत्वा व्यजेष्ट । तदनु शूरपालनरपालाऽनुज्ञात: परमहंसश्चित्रकूटे स्वगुरोर्हरिभद्रसूरेरभ्यर्णमागात् , तत्र च सौगतनगरगमनं, तत्कृतां परीक्षाम् , ततः पलायनम् , मार्गे हंसस्य मरणम् , शूरपालनरपतिकृतस्वरक्षणम् , तत्समक्षं बौद्धाचार्याणां शास्त्रार्थे पराजयकरणम्, पुनश्चित्रकूटाऽऽगमनान्तं कथयन्नयमपि प्राणं तत्याज ।
एतदुभयसच्छिष्याऽकालमरणसातप्रभूतदुःसहदुःखेन चोकुपितो हरिभद्राचार्यस्तदैव ततो विहृत्य शूरपालक्षितिपतेः समीपमागतवान् । अत्र च शास्त्रार्थचिकी पालेन समस्तानपि बौद्धाचार्यानजूहवत् । तेऽपि तूर्णमेव तत्रोपतस्थिरे । ततो राजसभायां मिथःशास्त्रार्थः प्रावर्तत। प्रान्ते तानशेषानसौ जिगाय, परमियतैव क्रोधाग्निर्न शशाम, अत एव महामन्त्रं प्रयुज्यैकैकशस्तान् सौगतान् सशिष्यगणान् सन्तप्ततैलपूर्णकटाहे पातं पातं निजशिष्ययुगलघातजातशुचः कृताऽऽर्हतप्रतिमाऽऽशातनायाश्च प्रतीकारं विधातुं लग्नः। एतदवद्यकृत्यं कथमपि विदित्वा जिनभद्रसूरिस्तदुपशमार्थं समरादित्यभवदर्शकगाथात्रयं लिखितपत्रं
१ हरिभद्राचार्यस्य सर्वशास्त्रकुशलौ जिनभद्र-वीरभद्रनामानावुभौ शिष्यावास्ताम् । तदा तत्र चित्रकूटे सौगता अपि प्राचुर्येणाऽवर्तन्त. परमेते हरिभद्राचार्येण सापत्न्यमधृषत ; अतएव गुप्त्या युक्त्या च तदुभयशिष्यो ते घातितवन्तः । एतद्रहस्यं कथश्चिद्विदित्वा चेखिद्यमानः स सूरिस्तदैव निरशनचिकीरभवत्परन्तु सङ्घप्रार्थनया तकृस्वा शिष्यसन्तत्यामिधाsनेकग्रन्थरचनायामेव मनो न्ययुक्त । इत्यलेखि भद्रेश्वरकथाबली ( प्राकृतभाषामय ) ग्रन्थे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org