________________
नवमं व्याख्यानम् ।
( ३०७ )
अतस्तदुपायं सुगमं ब्रूहि । गुरुणोक्तम् - एवमस्ति चेत्तर्हि सर्वपापनिवृ त्तिलक्षणं श्रामण्यं भज । ततोऽसौ तद्ग्राहिणीं स्वेच्छां व्यानञ्ज । तदैव गुरुस्तस्मै श्रामणीं दीक्षामदात् । ततो जैनागमेषु प्रावीण्यमीयिवांसमेनं जिनदत्तसृरिराचार्यपदं प्रदाय स्वपट्टधरमकृत । अथ हरिभद्रसूरिर्गुर्वादेशेन पृथिव्यां सर्वत्राप्रतिबद्धविहृत्याऽनेकभविकजीवान् धर्म्यान् कृतवान् । एकदा स्वजनानां कर्कशगिरा संसारविमुखौ चिन्तितौ निजभागिनेयौ हंसपरमहंसौ तत्राऽऽगत्य विधिवदद्भिवन्य तमूचाते - आवां संसाराऽसारतां जानानौ तत्स्थित्या विरक्ताबभूव । गुरुराचष्ट यद्येवमेवाऽस्ति, तर्हि दीक्षां गृह्णीतम् । ततस्तयोर्दीचां दत्त्वा ' जिनभद्र ' ' वीरभद्र ' इत्यभिधामकुरुत । कृतवाँश्चतौ व्याकरणतर्कादिशास्त्रेषु निष्णातौ । तत इमौ सौगताऽऽगमपिपठिषया गुरुणा वारितावपि बौद्धान्तिकमगच्छताम् । स्थित्वा च तन्मठे स्तोके - नैवाऽनेहसा तदागमानधीत्य कुशाग्रसमधियो बलेन समस्ताऽध्येतृणामग्रेसरौ जातौ । ततः किमेतौ सौगतावान्यमतीयो वेति संशयानो मठपतिस्तद्विनिश्वेतुकामेनैकत्रभवने परीक्षादिनं नियम्य सर्वां छात्रानादिध्वान्–' यद्भवद्भिः सर्वैरिह परीक्षासदने द्वारि स्थितां जिनमूर्त्ति पदम्यां स्पृशद्भिरन्तः प्रवेष्टव्यम्, यश्चैवं न करिष्यति, स प्राणदण्डं भोक्ष्यति । ततः सर्वे छात्रास्तथैव तत्र प्रविविशुः, हंस- परमहंसौ तु मनसि बहुधा विमृश्य प्रतिमाया हृदये खटिकया रेखाश्रयं विधाय, तदुपरि चरणौ निधाय तदादेशं प्रत्यपालयताम् । तद्विलोकमानो मठपतिर्मनास निरचिनोत् ' यदेतो जैनौ स्तः ' ततो मठपतिरेतौ हन्तुं प्रयतमानोऽभवत् । एतत्स्वरूपं विदित्वा तौ हंस - परमहंसौ ततो निरैताम् । सौगताः सुभटाश्च कूरास्तत्पृष्ठे दधाविरे । समीपमागच्छतस्ता नालोक्य हंसः परमहंस वाच- त्वमरं धावित्वामुष्मिन्नासन्नग्रामे शूरपालनरपतिशरणे याहि, अहमेक एव तावत्सुभटैर्योत्ये परमहंसस्त
Jain Education International
For Private & Personal Use Only
"
www.jainelibrary.org