________________
( ३०६)
श्रीकल्पसूत्रार्थप्रबोधिनी. साधं सुखासनाऽऽसीनो विपण्यामध्यतः क्षितिपतेः समज्यायां गच्छनये जनान् भीषयन्तं मत्तमातङ्गमद्राक्षीत् । तदा तद्भीत्या सहसैव यानादुरप्लुत्याऽऽसन्नजैनमन्दिरं प्राविशत्सः । तदासन्नोपाश्रये तस्थु. पीनां साध्वीनामग्रेसरी पुराऽभ्यस्तसिद्धान्तमावर्तयन्ती · चक्की दुगं हरिपणगं, पणगं चक्कीण केसवो चक्की । केसवचकी केसव, दुचकी केसव चकी य ॥१॥' इति सैद्धान्तिकी गाथामुदचारयत । हरिभद्र एनां गाथामेकमना निशम्य तदर्थं भूयो भूयो विमृश्य भनागपि जो विदा श्चकार । ततः साध्वीमपृच्छत्-मातः ! त्वमिदं चकचकेति किमपाठीः ? । तयोक्तम-' नेदमागोमयेन विलिप्तं विद्धि' तदुक्तमेवं श्रुत्वा ब्रीडितो हरिभद्र उवाच-मातः ! तदर्थं मां भाषख । साऽवोचत-मम जिनागमानामभ्यसनमात्रस्यैवाऽऽदेशो वर्वति, तदर्थान् परान् बोधयितुं नो नाऽदिक्षद्भगवान् , अतस्तदर्थं बुभुत्ससि चेन्मामकं गुरुं पृच्छ । सोऽ ब्रवीत्-क्कास्ते गुरुः ?, ततो याकिनी साध्वी हरिभद्रं जिनदत्तसूरिसमीपमानीतवती । तत्र च गुरुरेनं तद्गाथार्थमित्थं कथितवान् । तथाहिआदौ भरत-सगरौ चक्रिणौ, ततस्त्रिपृष्ठ-द्विपृष्ठ-खयम्भूर-पुरुषोत्तमःपुरुषसिंहाः पञ्च वासुदेवाः, पुनर्मघव-सनत्कुमार-शान्ति-कुन्थ्वराः पञ्च चक्रिणः, तदनु पुरुषपुण्डरीकाऽऽख्यवासुदेवः, ततः सुभूमश्चक्री, पुनर्दत्तनामा वासुदेवः, ततो महापद्मश्चक्री, पुनर्लक्ष्मणवासुदेवः, ततो हरिषेण-जयौ चक्रीगो, पुनः श्रीकृष्णवा देवः, तो बह्मदत्तचक्री समभून्नस्यामवसर्पिण्यामिति । ततो हरिभद्रो गुरुं पुराकृतप्रतिज्ञावार्ता श्रावयामास । गुरुरुवाच-त्वयैतस्या महत्तराया धर्मपुत्रेणं भवितव्यम् । तेनोक्तम्-भगवन् ! कीदृशोऽसौ धर्मस्तत्फलं च किम् ? । व्याजते गुरुःधर्मो द्विविधो वर्त्तते-सकामोऽकामश्च । सकामवृत्त्याऽनुष्ठितो धर्मः प्राणिनां स्वर्गादिफलं वितरति, निष्कामवृत्त्या विहितधर्मस्तु भवमुच्छिनत्ति । हरिभद्रोऽब्रवीत्-स्वामिन् ! अहमपि भवनिवृत्तिमेव वाञ्छामि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org