SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ गर्म ब्यास्वानम् । चर्षे गतानामन्तवासिनामागमनावधिस्थातुमाजग्राह, परमसौ न तस्थि: वान् । उपाश्रयस्य मुख्यद्वारं परावर्त्य गतवानेव । तदनु समागतास्ते द्वारं परावृत्तमालोक्य तत्कारणं गुरूनपृच्छन् , गुरुश्च शकागमनादिवृ. त्तान्तं व्याजहार । ततः सुचिरं निर्दोष संयम परिपालयन्नन्ते निरशनेनयामगादसाविति तृतीयः। । त्रयाणाममीषां मात्रिकं पैत्रिक दैक्षिकं च वृत्तं प्रायः साम्यमेवोपलभ्यते, किन्तु संस्कृतकथानकीयप्रक्षिप्तगाथायामेकस्येन्द्र प्रति निगोदस्वरूपव्याख्यातुर्वीरनिर्वाणतः ३२५ तमे वत्सरे, सरस्वतीसाध्वीहेतोर्गदैभिल्लनृपोच्छेत्तुर्द्वितीयस्य, वी० ४५३, पञ्चमीमुज्झित्वा चतुर्थ्यां पर्युष. णमहापर्वप्रथयितुस्तृतीयस्य वी० ९९३ तमे च हायने सत्तामाचख्यौ । १२८ श्रीहरिभद्रसूरिनिवन्धः___ अध चित्रकूटोपकण्ठवर्तिन्यां · पिर्वगुई' इत्यभिधानायां ब्रह्मपुयाँ चतुर्दशविद्यानिष्णात एको हरिभद्रनामा ब्राह्मणो न्यवात्सीत्। आसीचा. ऽयं चित्रकूटाधिपतेर्जितारे राज्ञः पुरोधाः । पिता चास्य शङ्करभट्टः, प्रसूश्च गङ्गाऽभिधानाऽऽसीत् । परमसौ विद्याऽखर्वगर्वाजगति समस्तामपि विद्वन्मण्डली तृणाय मन्यमानस्त्रिभुवनस्थ-विबुधजिगीषया सदैव पार्श्वे कु. ठारं, जालं, निःश्रेणिकां च बिभ्राणो द्वीपे चामुष्मिन् स्वमद्वितीयं जानानः कदाचिजठरे परिस्फुटिते सर्वा मे विद्या न निगच्छेयुः, इति धियाऽनवरतं स्वर्णपट्टेन बद्धोदरो जम्बूद्वीपे कोऽपि मे जेता नास्तीति सूचनार्थ करधृतजम्बूशाखः प्रतिज्ञामकरोत्-' यद्वाक्यमाकर्ण्य तदर्थमहं न कुर्या, तस्यैव भविष्यामि शिष्य इति ।' अयमेकदा बहलशिष्यगणैः १ विसयपणवीस इंदो, घउसयविपन्नसरस्सई । नवसयविनवइवीरा, चचत्वीए जो कालगायरिया ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy