________________
( ३०४ )
श्री कल्पसूत्रार्थप्रबोधिनी.
मण ! सिद्धान्तादौ कचिदपि संशयालुश्चेन्मामधुना परीपृच्छयताम् । एवं साहङ्कारं ब्रुवाणमेवं तदखर्वगर्व चिखण्डयिषुर्वृद्धोऽपृच्छत् - भो विद्वत्तम ! धर्मोऽस्ति न वा ?, सागरचन्द्रोऽवादीत्-अस्त्येव धर्मः । वृद्धउवाच - नास्ति धर्मः । इत्थं तावुभौ सुचिरं धर्मास्तित्वनास्तित्वयोर्व्यवदताम् । प्रान्ते निरुत्तरीकृतः सागरचन्द्रो विवेद - नायं साधारणः श्रमणः, किन्तु कश्चिन्महाप्रभावी सकलागमपारगामी वयसा विद्यया च वरीयान् प्रतिभातीति । इतश्च प्रभाते जाते प्रमादिनस्ते शिष्या गुरुमपश्यन्तो महतीं ब्रीडामापेदिरे । अज्ञासिषुश्च शय्यातरमुखात्, यन्नः शिष्याणां प्रमाददोषेणैव क्लिश्यन्तो गुरवो नोऽपहाय सुवर्णपुरे सागरचन्द्राचार्यान्तिकं जगन्वान् । ततस्त्रिधा विभक्तास्ते श्रमणा एकैकस्य पृष्ठे चलन्तः क्रोशन्तश्च सर्वे स्वर्णपुरोपकण्ठमाजग्मुः । गुर्वागमं श्रुत्वा प्रहृष्टः सागरचन्द्रः सम्मुखमागत्य तानपृच्छत् - कास्ते गुरुः ? । तैरुक्तम् - स तु प्रागेकाक्येव भवत्पार्श्वमागात् । सागरचन्द्रो विवेद अहो ! येन सत्रा मयाऽकारि शास्त्रार्थः, यश्च मां निरुत्तरीकृत्य जिगाय, नूनं स कालकाचार्य एवाऽस्तीति । तदैव सर्वैः सार्धमुपाश्रयमागत्य गुरुमभिवन्द्य स्वापराधं क्षमयाञ्चक्रे । अथायं कालकाचार्यः शिष्यगणैः सह ततो विहृत्य प्रतिष्ठानपुरमागतवान्। तदवसरे शक्रेन्द्रः सीमन्धरस्वामिमुखान्नि गोदविचारमाकर्ण्य पृष्टवांस्तम्भगवन् ! भरतक्षेत्रे कोऽप्येवं निगोदस्वरूपं वेत्ति न वा ? सोऽब्रवीत् सम्प्रति प्रतिष्ठानपुरे कालकाचार्यस्तद्विद्वानस्ति । अथेन्द्रो विप्रवेषेण तत्राऽऽगत्य तं तत्स्वरूपमप्राक्षीत् । सोऽपि तत्स्वरूपं सौगम्येन तथा शक्रेन्द्रं वेदयाञ्चकार, यथाऽऽकर्ण्य स प्रासासदी त्तमाम् पुनः स पार्णि प्रसार्य पृच्छति स्म - ममायुः कियदस्ति ?, तमालोक्य गुरुराख्यत्-त्वं प्रथमदेवलोकीयः सुरेन्द्रः प्रतिभासि, आयुश्च तावकं द्विसागरोपमं वर्वर्त्ति । ततः शचीशः प्रत्यक्षीभूय दिशोदशप्रादिद्युतत् । अचकथच्च सीमन्धरोक्तं सर्वम् । अभिवन्द्य यियासन्तमेनमाचार्यो गो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org