________________
नवमं व्याख्यानम् ।
(३०३) काचार्यो बलमित्र-भानुमित्रप्रतिबोधयिता पञ्चमीमपहाय चतुर्थ्यां पर्यु. षणां न्ययुक्त, इति प्रथमः ।
द्वितीय एकदा विहरमाणो दाक्षिणात्ये प्रतिष्ठानपुरे समाययौ । तत्र च शालिवाहनो नरनाथो जैनधर्मी साधुभक्त आसीत् । अत एनं चतुर्भासी यावत् तत्रैवाऽतिष्ठिपद्राजा । समासन्ने च पर्युषणपर्वणि स आचार्य पप्रच्छ-प्रभो ! पर्युषणं महापर्व कदा निरधारि ?, सूरिणोक्तम्- भाद्रपदसितपञ्चम्याम् ।' राजोवाच-स्वामिन् ! तस्मिन् वासरे कौलिकं सदा वार्षिकमिन्द्रार्चनं महतामहेन विधीयते मयका । ऐकाहिकमेवोभयं चेदुभयत्रममापस्थितिः कथं भविष्यति १, अतः कृपां विधाय पञ्चम्याः स्थाने षष्ठ्येव निश्चीयताम् , यथाऽहमाप महापार्वणिकं पौषधादि शुभं कुर्याम् । आचार्य उवाच-राजन् ! पञ्चम्या निशाया उलङ्घनं जात्वपि नैव भवितुमर्हति । राजा चचक्षे-एवञ्चेत्तर्हि चतुर्थ्यामव तदवधार्यताम् । तदा कालकाचार्यों नरपतेर्लाभमालोक्य 'अन्तरा वि य से कप्पई' (अन्तरापि च तत्कल्पते) इति कल्पसूत्रोक्तपाठमनुसृत्य चतुथ्योमेव तन्निरचिन्वत । एवं पाक्षिकं चातुर्मासिकं च प्रतिक्रमणं पौर्णमासिकमपि चतुर्दश्यां स्थिरीचक्रे । तदिनादद्यापि श्वेताम्बरजैनसमाजे सैव पद्धतिः पाप्रथीतितरामिति द्वितीयः । ___ अपरश्चासौ कालकाचार्यः सुखेन विहरन् संयमञ्च समवन्नासीत् । परमेतच्छिष्याः प्रमादित्वाद् गुरुगा प्रेरिता अपि क्रियानुष्ठाने शिथिला जाताः । अतः स यदीशैरकर्मठैः प्रमादिभिः सहवासादेकाक्येव वरम् । इत्थं विमृश्य, शय्यातरं तत्सर्वमाभाष्य सुप्तानेवान्तेसदः प्रहाय, स्वर्गपुरमागत्य स्वान्तेवासिनः शिष्यस्य सागरचन्द्राचार्यस्याऽभ्यर्ण मित्वा तत्रोपाश्रयस्यैकस्मिन् कोणेऽस्थादसौ । प्रभाते च सागरचन्द्राचार्यो मधुरध्वनिना व्याख्याय सभ्यसमक्षमप्राक्षीदेनम्-भोः ! कथय, मया कीदृशं व्याख्यायि ? वृद्धेनोक्तम्-सम्यक् । पुनः सगर्वमूचे-श्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org