________________
(३०२)
श्रीकल्पसूत्रार्यप्रबोधिनी. न्मुक्त्वा ससैन्यास्ते सकलाः क्रोशपञ्चकं ततो दूरङ्गत्वा तस्थुः । यहि सा गर्दभी रवितुं मुखं व्यादत्त, तर्खेवाऽऽचार्यवचसा ते धानुष्का युगपद्वाणांस्तथा मुमुचुर्यथा तैरेव शरैस्तस्या मुखं परिपूर्णमजनि, अत एव शब्दं कर्तुं नाऽशक्नोत् । ततः कुपिता सा विद्या नृपोपरि हदित्वा तिरोधत्त । तदनु परावृत्ताः साखीराजीयाः सैनिका उज्जयिन्याः प्राकारं भित्वान्तःप्राविशन् , गर्दभिल्लभूपं गाढं बद्ध्वाऽऽचार्याऽन्तिकं निन्यिरे च । अवादीदाचार्यः-पापिष्ठ ! त्वमेकस्याः शीलालङ्कतश्रमणायाः संयम यदभाक्षीस्तदुद्भूतमहापापस्य फलं नरके भोक्ष्यसे, यदेतच्चौर इव बन्धनादिकमनुभवसि, तत्तु तदंशमात्रमेव जानीहि । अतस्तच्छुद्धिकृते दीक्षामादेहि । यया हादिन्या तन्महावृजिनगिरि भेत्स्यति, परमेतदुपदेशस्य महासारस्यापि प्रभावः पापीयसि कमलादृगिव तद्धृदये मनागपि नैवाऽपतत् । तदुक्तम्-' अङ्गारः शतधौतेन मालिन्यं नहि मुञ्चति।' तस्मिन्नवसरे साखीनरपतिरेनं जिघांसुरजायत, किन्तु 'पापी पापेनैव पच्यते' इत्याभाष्य स तममुमुचत्। ततः साखीनरनाथस्तं देशात्तूर्णं निरयीयपत् । निर्याते चामुके कालकाचार्य उज्जयिन्या राज्यासने साखीबादशाहं संस्थापितवान् । पञ्चनवतीतरनरपतिभ्यश्च मालवं विभज्य ददिवान् । साध्वी सरस्वतीमपि पारतन्त्र्येण सञ्जातसङ्घर्षादिपापापनोदाय प्रायश्चित्तङ्कारयित्वा गच्छे निनाय । प्रान्ते स्वयमप्याचार्य आलोचनां लात्वा गच्छाधिपत्यं बिभरामास । अथैकदा लाटदशांतःपातिभृगुकच्छ( भरुच )नगराधिपतिबलमित्र-भानुमित्राऽभ्यर्थितः कालकाचार्योभृगुकच्छमाययौ । तत्र शकुनिकातीर्थनायकं भगवन्तं श्रीमुनिसुव्रतनाथं प्रणम्य, धर्मदेशनां विधाय च तौ बलमित्र-भानुमित्रौ जैनधमिणौ व्यदधात्सः । तत्र च शास्त्रचर्चाविधित्सया मिथ्यात्वी राजपुरोधास्तदन्तिकमागतवान् , पराजितवांश्चैनमप्याचार्यः सद्युक्तिसूक्त्या रा. जपरिषद्येव । — कालगायरियकहा ' क रस्त्वाहुरेवम्-यदयमेव काल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org