________________
नवमं व्याख्यानम् ।
( ३०१ )
वृषि समुपस्थितायामाचार्यनिदेशात्तत्रैव सर्वे नृपा न्यूषुः । तत्र तस्थुषां समेषां क्षितिभुजां पार्श्विकं स्वापतेयं सर्वं वीतमभूत् । पार्श्वे स्तोकमपि नाऽस्थादतएव ते सर्वे चिन्तातुरा जाताः । तदाऽऽचार्यः शासनदेवीं स माराध्य स्वर्णसिद्धिं च कृत्वा सर्वेषां चिन्ताऽभनक् । चातुर्मासेऽपगते ऽग्रे चलित्वा लाटदेशमायन् । तत्र च तावुभौ महीपालो बलमित्र - भानुमि त्राभिधौ सार्थगावभूताम्, यौ कालकाचार्यस्य भागिनेयावास्ताम् । इतश्च गर्दभल्लोऽपि स्वस्योपरि भविष्यदारातिकाऽऽक्रमणं कथञ्चिदभिज्ञाय स. जीकृतचतुरङ्गसेनः प्रागेव समराय सम्मुखीनस्तस्थिवान् । तदनु साखीनृपैरपि सह पृतनाभिः समागत्योज्जयिन्या अधिसीमं स्वशिबिरमपाति । तदवसरे कालकाचार्यों गर्दभिल्लं राजानं दूतम जल्पयत -' इदानीमपि सरस्वतीं साध्वीमुज्झ, हठाऽऽधिक्यं मा कृथाः, नोचेदायतौ भावुकं फलं न द्रक्ष्यसि ।' परममुनाऽप्युपदेशेन कदाग्रही राजा तां नैवोज्झाञ्चकार । ततो दलद्वयिके सैन्ये परस्परं युयुधाते । तत्र च साखीनरपतेः सुभटा वैपक्षिकं दलं बलवत्तरं पराक्रममदीदृशन् । तदसहमानानि गर्दभिल्लबलानि कान्दिशीकानि नेशुः । नष्टेषु तेषु राजाऽपि गोपुरं पिधाय क्वाप्यनश्यत् । तदा कालकाचार्यबलानि परितः पुरमरुन्धन् । कियन्त्यपि दिनानि गढोपरि तदीय एकोऽपि पुमान्नाऽदृश्यत । ततः साखीनृपेण पृष्ट आचार्यः कथितवान् - एष राजा गर्दभिल्लो गार्दभी विद्यामिदानीं साधयति, अत्र मनागपि मा संशयीथाः, याहि विलोकय, किलोपरि काप्येका गर्दभी तिष्ठतीति । सोऽपि कचिदेकत्र स्थाने व्यात्तवदनामेकां गर्दभीमद्राक्षीत् । आचार्य ऊचे - ' यदाऽमुष्य भूमीपतेर्विद्या सेत्स्यति, तदेयं वदिष्यति, यश्च नृपारातिस्तद्रवं श्रोष्यति, स रक्तं वमित्वा भूपौ निपत्य मरिष्यति । ' इति श्रुत्वा साखीनरेशाः सर्वे बेभीयन्ते स्म । अत आचार्यवचसा तदन्तिकेऽष्टोत्तरशतं धानुष्का
"
१ प्रस्रवणलब्ध्या स्वप्रस्रावेणैव शिलामपि स्वर्ण चक्रिवानित्यपि काचित्को दृश्यते लेखः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org