________________
(३००)
श्रीकल्पसूत्रार्थप्रबोधिनी. स्वस्वधनुर्बाणांश्चात्राऽऽनयन, तदैव ते धनुर्बाणानानिन्यिरे। तत आचार्यः प्रथमं कन्दुकोपरि गोमयानि क्षिप्त्वा तदुपरि ज्वलच्छष्पपुलकानि चिक्षेप । ततो धनुराकान्तमाकृष्य बाणेनैकेन कन्दुकं विद्ध्वा बाणपारम्पर्येण लीलयैव पश्यत्सु तेषु स कूपान्तस्तमुद्दधार । तमादाय प्रहृष्यन्तः सर्वे राजपुत्रा आचार्य भृशं प्रशंसन्त: सदनमागत्य, स्वस्वपितरौ तमद्भुतं तदीयकौशलमाचख्युः । सर्वत्र प्रसरन्ती वातैषा तत्रत्यस्य साखीराजस्य कर्णपर्यन्तमगात् । राजा सादरं कालकाचार्य समाकार्य तत्कलाचातुर्येण भृशं सन्तुष्य पार्श्वे तमतिष्ठिपत् । सोऽपि ज्योतिषनैमित्तिकादिविविधविद्यया साखीराजमनुरञ्जयंस्तत्रैव बहुनि दिनानि व्यतीयाय । अथैकस्मिन् दिने सदसि साखीनरपतेरग्रे समायातः कश्चिदेको दूत एकस्यां कटोरिकायां क्षुरिकां पत्रिकाञ्च न्यधत्त । तां वाचयित्वा राजा स्तब्धीभूय हतश्रीकः श्यामवदनो जज्ञिवान् । भूपतेरीदृशीं दशामालोक्य कालकाचार्योऽपृच्छत्-स्वामिना प्रेषितमुपायनं प्राप्य सर्वे जरीहृष्यन्ते, भवानीदृश उदासीनः कथं दृश्यते ?, राजोवाच-स्वामिन् ! नायमुपहारः, किन्तु कुपितः कृतान्त इव सद्यः प्राणहर एव ममेदानीमुपस्थितः । आचार्योऽवदत्-कथम् ?, नृपेणोक्तम्-चोकुपितः सामी मामेतदादिशति- यत्त्वमधुनाऽनयैव क्षुरिकया स्वशिरश्छित्वा पात्रेऽमुके निधाय तूर्णमत्र प्रेष्यतामन्यथा सपरिवारं त्वां मारयिष्यामि ।' अयश्चादेशः केवलं ममैव न, किन्तु समस्तसाखीनरपतीनामभूत्, तदा नृपोक्तं सर्वमाकर्ण्य स्वसमीहितसिषाधयिषुराचार्यः स्ववसरं विदित्वा सोत्साहन राजानमवादीत्-राजन् ! कातर इव मा शोचीः, चिन्तां जहीहि, यूयं सर्वे साखीनरपाला मयका सत्रा गच्छत । अहमुजयिनीनाथं गर्दभिल्लक्षितिपतिमीदृशानर्थकरं समूलमुच्छिद्य तद्राज्यं वो दास्यामि । अथाचार्यवचसि विश्वस्याऽन्येषामपि राज्ञां पञ्चनवतिं समाहृय सर्वे कालकाचार्येण साकं प्रतस्थिरे । सिन्धुनदीमुत्तीर्य सौराष्ट्रमागतास्ते प्रा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org