________________
नवमं व्याख्यानम् ।
( २६६) तदैवाऽनेकसाध्वीगणपरिवृता सरस्वत्यपि तत्राऽऽगतवती । एषाsनवरतं तद्देशनाशुश्रूषया गमाऽऽगमौ कुर्वाणाऽऽसीत् । तदा तत्र गर्दभिल्लनामा क्षितिपाल आसीत् । असौ ललनालम्पटो महाकामी कथञ्चिदेकदा सरस्वतीसाध्वी प्रेक्षत । यद्येव तामालोकत तधैव तन्मनसि कामाग्निः प्रजज्वाल । तदैव च कामाग्निना दन्दह्यमानो राजा तां बलादानाय्य स्वान्तःपुरं प्रावेशयत् । तत्कालमेव तत्सहचर्यः साध्व्यः समेत्य, सवर्मतत्कालकाचार्यमूचिरे । सोऽपि नृपान्तिकमागत्य बहुधा प्रतिबोधितवान् , परन्तु मारपिशाचग्रस्तो नरपतिः किमपि नाऽमस्त । तदनु सङ्घमेकत्रीकृत्य सर्वमाख्यदाचार्यः । ततः सङ्घीभूतेन सङ्केनापि गत्वा तां मोक्तुं नृपः सुचिरं प्रार्थितस्तथापि राजा सरस्वती नैवाऽजहात् । ततो दण्डाऽऽहतः फणीन्द्र इव श्रीसङ्घापमानेन महापापाऽऽचरणेन च चोकुपीति स्म सः। तदा प्रकुपितस्य कालकाचायस्य कोपानलः प्रतिरोमं प्रससार । प्रत्यज्ञायि च सकलसङ्घसमक्षममुना-चेदेनं गर्दभिल्लं कद्राजं समूलं सराज्यं नोच्छिनदानि तर्हि का. लकाचार्येति नाम नैव बिभराणि । एवं प्रतिज्ञाय राज्ञोऽमुष्मादत्याचाराद्विरामाय स उन्मत्तवन्न गरे सर्वत्र बम्भ्रमीति स्म । सर्वमेतत्प्रतिज्ञावादादिकं शृण्वन्नपि निस्त्रपो नरेशस्तां हातुं नैवाऽचीकमत । प्रान्ते गच्छभारं निजशिष्ये निधाय सिन्धुनदीतटाऽऽसन्नपारसकूलाभिधानदेशं प्रत्यचलत् । अत्रत्याश्च सर्वे राजानः साखी (शाही )तिनाम्ना पप्रथिरे । अधिमार्गमेकस्मिन् ग्रामे बाह्ये चत्वरे कतिपये राजकुमाराः कन्दुकेन रमन्ते स्म । दैवात्स कन्दुकः कूपे पपात । तमुद्धत्तुं ते सर्वे महतीं चिन्तामापेदिरे । तदा समागत आचार्यः कूपोपकण्ठे निषण्णांश्चिन्तया विच्छायवदनांस्तानप्राक्षीत्-भोः ! यूयं किमत्र पक्ष्यथ ?, ते जगदुः-मामकीनः कन्दुकः कूपकेऽस्मिनपप्तत्, अतस्तदुद्धरणोपायमपश्यन्तश्चिन्तायां निमग्नाः स्मः । आचार्योऽभ्यधात-चिन्तां मा कृषत,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org