________________
( २६८)
श्रीकल्पसूत्रार्थप्रबोधिनी. १२७ श्रीकालकाऽऽचार्यनिबन्धः--
मगधदेशे धारावासाभिधे नगरे राज्ञो वज्रसिंहाद्राज्ञी सुरसुन्दरी कालकनामानं तनयं सरस्वती नाम्नी दुहितरश्चाजीजनत् । सचाऽष्टमे हायने मातापितृभ्यां कलाचार्यान्तिकेऽध्ययनाय महामहेन स्थापितः। अल्पीयसा समयेनैव कलास्वनेकासु स पटीयानजायत, विशेषतश्च गजाश्वबाणपरीक्षायामद्वितीयतामियाय । अन्यदा खुरासानदेशादुपहारीकृता भूयांसस्तुरगा वज्रसिंहक्षितिपतेः पार्श्वे समीयुः। तान् परीक्षितुं राजा कालककुमारमादिदेश । ततः पञ्चशताश्ववारैः सवयस्कैः सह तान् भ्रामयितुमटव्यामुपागतः । तत्र च तांश्चिरं परिभ्राम्य क्वचिदाम्रच्छायायां कुमारो विशश्राम । तदासन्ने च मुनिगणैः परिवृतो गुणाकरसूरिः शिष्यान् पाठयन्नासीत् । तन्मधुरध्वनिमाकर्ण्य तदुपदेशं शुश्रूषुः कुमारस्तत्राऽऽगत्य तमन्दत । सूरिः कुमारं जगत्यनित्यतां, श्रामण्यधर्मस्य सत्यतां, मोक्षदातृतां चाऽबूबुधत् । कुमारस्य स्वान्तेऽव्यभिचारिणी वैराग्यभावना किलोदियाय । कुमारेणोक्तम्-भगवन् ! यावदहं मातापित्रोरनुमति लात्वाऽत्राऽऽगच्छानि तावत्त्वयाऽत्रैव स्थयमित्युदीर्य स निजसदनमागात् । समागतः स पितरौ दीक्षां लातुमनुज्ञामयाचत । ताभ्यां बहुधा निवारितोऽपि यदा न न्यवर्तत, तदा वज्रसिंहो महीपतिमहामहेन प्रियसूनोर्दीक्षामदापयत ! भ्रातरि दीक्षामात्ते भगिनी सरस्वत्यपि तदैव दीक्षा ललौ । मात्रा पित्रा चोक्तम्-वत्स ! ते कनीयसी भगिन्यस्ति, एतस्याः संभालनादि सदैव सयत्नेन त्वया विधेयमिति । अथैनं व्याकरण-न्याय-वेदान्तादिसाहित्यालङ्कारच्छन्दोज्योतिर्नन्त्रतन्त्रादिविविधविद्यासु निष्णातमवगत्य गुणाकरसूरिः कालकमुनय श्रीसंघाऽऽरब्धमहामहेनाऽऽचार्यपदं ददिवान् । ततोऽसौ सर्वत्र श्रीकालकाचार्यनाम्ना प्रपथे।
एकदा कालकाचार्य उज्जयिनीनगरीमासाद्य बहिरुद्याने तस्थौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org