________________
नवमं व्याख्यानम् ।
( २६७) वृत्तं विलोक्य तत्कारणं गुरुमप्रातुः । गुरुः शकाऽऽगमनादिसर्वमुचिवान् । साधुभिरुक्तम्-भगवन् ! किश्चित्कालं स स्थापितश्चेद्वयमपि तं द्रक्ष्यामः । गुरुरवदत्-महापुण्यवतामेव तदर्शनं भवितुमर्हति । ततो मुनिगणैः सत्राऽऽचार्योऽन्यत्र व्यहार्षीत्। अथ थुरायामेकदा कश्चिदेको विद्वज्जनजिगीषया विद्वानाययौ । स च सर्वत्र नगरे पटहं वादयन्नेवमुदघोषयत- यदत्र सुविद्वान् कश्चिदस्ति चेन्मयका सत्रा चर्चा विदधीत, अशक्तश्चेत्तर्हि मे विजयपत्रं ददीत ।' तदाकर्ण्य सङ्घ आवेदनपत्रं सम्प्रेष्य सर्वमेतत्तमसूचयत । तदाऽऽचार्यो गोष्ठामाहिलं मथुरायां तेन सार्धं विवदितुं प्रैषीत् । असौ तत्राऽऽगत्य राजपरिषदि समस्तश्रीसङ्घसमक्षं सुचिरं चर्चा कृत्वा प्रान्ते तं जिगाय, तदनु सङ्घाग्रहेण गो. ष्ठामाहिलस्तां चतुर्मासी तत्रैवाऽकरोत् । इतश्चाऽऽर्यरक्षितसूरिः स्वायुषः क्षयं विदित्वा योग्याऽयोग्यश्च विमृश्य, दुर्बलपुष्पमित्रमाचार्यपदे निधाय गच्छाधिपतिमकार्षीत् । स्वयमनशनं विधाय द्यामगात । स्वर्याते चामुऽष्मिन् गोष्ठौमाहिल ईयया दुर्बलपुष्पमित्राचार्याय द्वेष्टुं लग्नः, अतएव सङ्घो मिलित्वा तं गच्छाद्वाहिश्चक्रे । एवमार्यरक्षितसूरिीरशासने प्रावचनिकः प्राभाविकश्च बभूवान् । एषको हि प्रथमोदयस्यैकोनविंशतितमो युगप्रधान आसीत् । एतस्य सकलायुः पञ्चसप्ततिहायनमभूत । वाल्लभीयुगप्रधानपट्टावलीग्रन्थानुसारादेतस्य वीरनिर्वाणतः ५२२ (वि. क्रमीयसंवत् ५२ तमे वर्षे जन्म, वी० ५४४ (वि० ७४ )तमेऽब्दे दीक्षा. वी० ५८४ (वि० ११४ ) तमे वत्सरे युगप्रधानपदाप्तिः, वी० ५९७ (वि० १२७ ) तमे हायने स्वर्गमनमधिजज्ञे ।
१ एनं गुरुगच्छशासनद्वेष्तृत्वादुत्तराध्ययनसूत्रादिटीकाकर्तारः सप्तमं निह्नबं लिखन्ति स्म । सविस्तरमेतद्वृत्तमुत्तराध्ययनसूत्रविशेषावश्यकभाष्यादिवृत्तितोऽवगन्तव्यमिति।
३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org