________________
( २९६ )
श्रीकल्पसूत्रार्थप्रबोधिनी. भिक्षायामेव तस्य तावती लब्धि विलोक्य निरचिनोत्-इयन्तो मे शिष्या भविष्यन्तीति । ततो गुरुणा सोमदेवस्य भावनाऽधिक्येन सर्वे मोदकाः सर्वेभ्यो मुनिभ्योऽदायिषत । सोमदेवमुनिः पुनरानीय पारणामकरोत् : आर्यरक्षिताऽऽचार्यगच्छे घृतपुष्पमित्र-वस्त्रपुष्पमित्र-दुर्बलपुप्पमित्रनामानस्त्रयो मुनिवरा आहारलब्धिमन्तोऽजायन्त । दुर्बलपुष्पमित्र-विन्ध्य-फल्गुरक्षित-गोष्ठामाहिलाऽऽस्याश्चत्वारः श्रमणा वादलब्धिमन्तो जज्ञिरे । वज्रस्वामिपर्यन्तमेते धर्मकथानुयोग-चरणकरणानुयोग-गणितानुयोग-द्रव्यानुयोगाश्चत्वारः सहैव सम्मिलिता आसन् , किन्तु विन्ध्यमुनेः प्रार्थनयाऽऽर्यरक्षितसूरिश्चतुरोऽनुयोगान् पृथक् पृथगकरोत् । एवममुना श्रमणानामनेकपात्ररक्षण आज्ञाऽकारि,न्यवर्ति च साध्वीनामालोचनादातृत्वम् । अत एवैतच्छासनसमयादेव श्रामण्याः प्राच्यसंस्कृतेः शैथिल्यं नव्याचारपद्धतेरेधनञ्च भवितुमलगदिति कथनमनौचित्यं नोपैति ।
अयमेकदा मथुरानगयाँ क्वचिदेकत्र व्यन्तरायतने तस्थिवान् । तदवसरे महाविदेहक्षेत्रे श्रीसीमन्धरस्वामिपार्थेऽभिवन्दनाय शकेन्द्रः समुपेयिवान् । तदने भगवान् निगोदस्वरूपमवर्णयत । तदन्ते प्रसन्नः शकेन्द्रस्तमप्राक्षीत्-विभो ! भरतक्षेत्रे कश्चिदेतत्स्वरूपं वेत्ति, न वा ?। भगवानाचष्ट-अस्ति मथुरायामेतत्स्वरूपं विद्वान् यथावदहमिव वक्ताऽऽधरक्षितसूरिः । ततो विस्मितः शकस्तत्रागत्य वृद्धब्राह्मणरूपेणार्यरतितसूरि तत्स्वरूपं पप्रच्छ । सोऽपि सीमन्धरस्वामीव निगोदानां स्वरूपं यथावद्वर्णयाञ्चके । इन्द्रोऽपृच्छत्-ममाऽऽयुः कियदस्ति ?, सूरिस्तद्धस्ताऽवलोकनेन पक्षमासवर्षादिकं विमृश्य चचक्षे-न त्वं मनुष्यः, किन्तु प्रथमदेवलोकवासीन्द्रोऽसि, अस्ति चाऽऽयुस्तावकं द्विसागरोपमप्रमा. णम् । शकेन्द्र आचार्य भृशं प्रशस्य स्ववृत्तं निवेद्य, परावर्त्य चोपाश्रयद्वारं स्वस्थानमगच्छत् । बहिर्गताः श्रमणाः समेताः सन्तो द्वारं परा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org