________________
नवमं व्याख्यानम् ।
( २६५ )
हठादपनिन्यिरे, स तु विघ्नोऽयमिति मन्वानः शवं वहमानो निर्भी: कचिदपि मार्गे शवमत्यजन्नग्न एव परिव्रजन् परिष्ठापनभूमौ समागत्य शवमुदतीतरत् । तदनु गुरुरपि सपरिवारस्तत्राऽऽगत्य तं नग्नमुदीच्य, कमपि साधु धौतमानेतुं समादिशत् । सोऽपि पुराकृतसङ्केतो गुरुमाख्यत्धौतवसनं तु श्राद्धझन्येवाऽधिगन्तुं शक्यते चोलपटं जिघृक्षति चेप्रस्तुतमेवास्ति । वृद्धेनोक्तम्-मामधुना सर्वे नग्नमद्राक्षुश्चेत् त्रपा मे गता, धौतं नाऽपेक्ष्यते चोलपट्टमेव दीयताम्, अद्यारभ्य तदेव परिधित्सामि । अमुनोपायेन धौतमपि तेनाऽजीहपत् । वृद्धो मुनिगचरीं लातुमपि शिक्षतामितिधिया गुरुरेकदा त्रिचतुःश्रमणानुवाच - यूयं गोचरीमानीय स्वयमेव भुग्ध्वम् वृद्धमनये तु नैव देयम् । अहमद्य नैकटिकग्रामे प्रतिबोधयितुं व्रजामि, श्वः परश्वो वाऽऽगमिष्यामि गुरौ याते तेऽपि तथैवाऽकृषत । द्वयहमतिक्रम्य समागतो गुरुस्तमपृच्छत् भोः ! आहारादिक्लेशो भवतोऽभवत्किम् ? । वृद्धोऽवदत् - तावकाः सर्वेऽपि मुनय उदराम्भरा एव सन्ति, यदेते त्वयि गते सति गोचरिमानीय स्वयमेव बुभुजिरे । मह्यं तद्दानं तु दूरमस्तु, पृष्टमपि न, अद्योपवसतो मे तृतीयो घस्रो व्येति । तदा गुरुः सकोपः श्रमणानुपालभत । साधवोऽजल्पत्-स्वयमेवाऽऽनेतुमसौ कथं न याति ? | गुरुणोक्तम्-तात ! पराशा सदा निराशैव बोभवीति, अतः सुधिया हातुमेव सा युज्यते । भवतु भवदर्थेऽहमेव भक्ष्यपेयादिकमानयामि । इत्थं भाषमाणे गुरौ सोमदेवोऽब्रवीत् त्वयि गच्छाधिपतयाते ममानुचितं लगत्यतोऽहं स्वयमेव गोचर्यै व्रजामि, इत्युदीर्य सोऽचलत् । अथासौ कस्यापि श्रेष्ठिनः सद्मनि पृष्ठद्वारेणैव प्राविशत् । श्रेष्ठी बभाषे - महाराज ! मुख्यद्वारं विहाय गौणेन कथमन्तः प्राविक्षः १ । मुनिरुवाच - अरे ! लक्ष्मीर्येनैव द्वारेणान्तः प्राविशेत् तदेव मुख्यमवगच्छतु भवान् । तच्छ्रुत्वा प्रहृष्टो गृहपतिः सोमदेवाय द्वात्रिंशन्मोदकान् प्रत्यलाभयत् । तानादाय स गुर्वन्तिकमागात् । गुरुः प्रथम
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org