________________
( २६४)
श्रीकल्पसूत्रार्थप्रबोधिनी. __ आर्यरक्षितसूरिओत्रा सत्रा दशपुरमागत्य मातापितरौ मिमिलतुः । तदा सर्वे कौटुम्बिका मुमुदिरे । तदवसरे सूरिरपि मेघगम्भीरया गिरा संसारेऽस्मिन् पुत्र-कलत्र-धन-वाहन-सदनादयः सर्वे क्षणभङ्गरा एव सन्ति, एषु ये ममतामावहन्ति, त एव भवाम्बुधौ मुहुर्मुहुर्निपतन्ति, मोहादयश्च सहसैव जीवमेनमधः पातयन्ति, येषां जेतुं साधीयान् पन्थाः शुद्ध चारित्रमेव जागर्ति, इत्यादि सर्वानुपादिशत् । तच्छ्रुत्वा सर्वे मात्रादयः शुद्धभावेन तत्पार्श्वे दीक्षामाददिरे । एकः सोमदेवस्तत्पितैव मतिमान्येन तमेवमाभदधौ-चेदुपानकमण्डलुच्छत्रोपवीतधौतान्येतानि पञ्चाऽजहतो मे दीक्षां दित्ससि ? तर्हि भेऽपि दीक्षां देहि । तदाकर्म्य पुनरग्रे सर्वमेतद्धापयिष्यामीतिधिया तदकिमुरीकृत्य पितरमप्यदीक्षयदार्यरक्षितसूरिः । अथैकदा गुरुशिक्षिताः श्रावकशिशवो जिनचैत्ये वजन्तं तत आगच्छन्तश्च गुरुं वन्दित्वाऽन्यानपि साधून सर्वान् ववन्दिरे, किननु वृद्धतरं सोमदेवमुनि नाऽवन्दिषत । उपाश्रये समागतं गुरुं सोऽज. ल्पत्-ते बालका मां केन हेतुना नाऽवन्दन्त ?, गुरुरूचे-भवांछत्रं बिभर्ति, तद्धारणात्साधवो नाऽभिवन्द्यन्ते । तन्निशम्य वृद्धमुनिस्तदौ. ज्झत् । एवं युक्त्यन्तरेण कमण्डलूपानदुपवीतान्यपि तेनाऽतित्यजत् । एकदा कश्चित्साधुर्व्यपद्यत, तच्छवं वोढुं गुरुशिक्षिताः सकला अपि साधवोऽहमहमिकयाऽऽजगृहुः । तदोक्तं गुरुणा-भोः ! एतदसाधारणं सुकृतं मत्सम्बन्धिन एव भवितुमर्हति, नेतरेषाः । इति श्रुत्वा वृद्धमुनिरचष्ट- एवञ्चेदहमेक एवैनं वहित्वा परिष्ठापयिष्यामि । गुरुरवादीत्ईदृशं महत्पुण्यमधिगन्तुं त्वमेवाऽर्हसि, परमेतस्मिन्नुपसर्गो महानुपस्थास्यते, तं सहमानोऽधिमार्ग कुत्राप्यनुत्तार्य शुद्धभूमौ यः शवं परिष्ठापयिता स एवैतन्महत्पुण्यं लप्स्यते । सर्वमेतदाकर्ण्य सोमदेवो मुनिः सोत्साहेन चेतसा स्कन्धोपरि शवं निधाय चचाल । ततो गुरुशिक्षिता बालका: कियन्तस्तमनुगच्छन्तः कियदरं गत्वा, तस्य वृद्धमुने/तवस्त्रं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org