________________
नवमं व्याख्यानम् ।
( २६१) भोक्ष्यते वा, सोऽपि तेन सत्रैव मरिष्यति । आर्यरक्षितोऽपि तदुररीकृत्य तस्मिन् स्वर्याते वज्रस्वामिनः समीपमागन्तुमचलत् । रात्रौ स्वप्ने स एवमपश्यत्-कश्चिदतिथिमुनिरागत्य मत्पात्रस्थं क्षीरं सर्वमपिबत्, किञ्चिदेवाऽवशिष्टं तस्थौ । इति नैशिकं स्वप्नं प्रभाते साधून् यावत्कथयति, तावदार्यरक्षितस्तत्रागत्य वन्दित्वा, स्वागमनकारणं भद्रगुप्तसूरिगदितवृत्तान्तञ्च व्याहृत्य, पृथगुपाश्रयस्थ एव सुखेन तत्पार्श्वे पूर्वानध्येतुं लग्नः । अल्पीयसा कालेनैव नवपूर्वानधीत्य दशमे पूर्व चतुर्विशति यमकानि सोऽध्यगीष्ट । तावत्तमाह्वातुं मातापितृभ्यां प्रेषितः कनी. यान फल्गुरक्षितनामा बन्धुस्तत्रागत्यैवमचकथत--बन्धो ! चिरात्त्वामपश्यन्तौ मातापितरौ चेखिद्यते, अत एकवारं तत्र चरु, मातापितरौ सुखय । सोऽवक्-असारहेतोः सारवस्तुत्यागो मौर्यमस्ति, सांसारिको मातापित्रादिसम्बन्धोऽसन्नेवास्ति, तेषु ममताप्यलकिवास्ति, तत्र गत्वा किं करिष्यामि ? । फल्गुरक्षितोऽवादीत्-मुटुम्बानां धर्ममुपदेक्ष्यसि, तं श्रुत्वा बहवो जना मिथ्यात्वं विहाय शुद्धं धर्म ग्रहीष्यन्ति, दीक्षां च लास्यन्ति, आर्यरक्षित उवाच-अन्येषां लाभस्तावदास्ताम् , इहागतस्त्वमधुना दीक्षामादेहि । तदैव फल्गुरक्षितो दीक्षां लात्वा चलितुं तमाग्रहीत् । ततो वज्रखामिनं सोऽपृच्छत्-भगवन् ! दशमे कियानध्येतुमवशिष्यते १ । गुरुरूचिवान्--इदानीं त्वया सर्षपप्रायोऽपाठि, मेरुतुल्यश्चाऽवशिष्यते । तदनु गुरुणा प्रोत्साहितः स पुनरध्येतुमारभे, परन्तु फल्गुरक्षितस्य पुनः पुनः प्रेरणया पुनः स गुरुमवादीत्-प्रभो ! ममेदानी ज्ञातीनां दिक्षा महती जायते, अतस्तत्र गन्तुमनुज्ञायताम् , तान्मिलित्वा पुनरागत्य शेषं पठिष्यामीति । तदाकर्ण्य वज्रस्वामी श्रु. तोपयोगत इत्यवेदीत-यदतः परं दशमपूर्वाऽवशिष्टो भागो मया सार्धमेव यास्यति, अतस्तत्र गन्तुं शुभाशीपूर्वकं तमनुज्ञातवान् । तावुभावपि ततश्चलित्वा पाटलिपुत्रनगरे स्वगुरोस्तोसलीपुत्राचार्यस्य पार्श्वमागमताम् । सोऽपि तस्मा आचार्यपदं वितीर्य स्वरगात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org