________________
(RER)
श्री कल्पसूत्राप्रीधनी.
ग्रे चचाल । तत्र चागत्य द्वाःस्थो दध्यौ - यदहं केन प्रकारेणान्तः प्रविशेयम्, कथं वा गुरुमभिवन्देय ? । तदैव ढड्ढराSSख्य एकः श्रावको गुरोन्दनार्थमागात् । तेन सहैवाऽर्यरक्षितोऽपि तत्रागत्य तद्वदेव गुरुं ववन्दे । अदृष्टपूर्वस्याऽऽस्य यथावद्वन्दनादिकमुदीक्ष्याऽऽचार्योऽपृच्छत्भोः ! कश्चिन्नूतनः भावको लक्ष्यसे स्वयेदृशः श्राद्धधर्मः कस्मादशिक्षि ? । तदैनमुपलक्ष्य कश्चिच्छ्रमणस्तमभाषत - प्रभो ! रुद्रसोमाश्राविकायाः पुत्रोऽस्ति, अचिरादेव वेदेषु तदङ्गेषु च निष्णातो भूत्वा, गृहाऽऽगतो राज्ञा प्रजाभिश्च सत्कृतः क्षितिपतिदत्तबहुमानपत्रोऽस्ति । ततः स्वयमप्यागमनकारणं तस्मै न्यवेदयत् । गुरुणोक्तम्- दिक्षामृते दृष्टिवादो नैव पाठ्यते । सोऽवक्-भगवन् ! अत्रत्यजनानां राज्ञश्च माय महीयाननुरागो वर्तते, स्वजनेऽपि ममता दुस्त्यजैव भाति, इत्यन्यत्रैव गत्वा मे दीक्षां देहीति । गुरुरपि भविष्यल्लाभं विदित्वा ग्रामान्तरं गत्वा तं दीक्षयित्वा साङ्गोपाङ्गानागमानध्याप्य तदधिकपूर्वश्रुताऽध्ययनायाऽवन्तिकायां वज्रस्वामिपार्श्वे प्राहिणोत् । सोऽपि तदादेशेन ततचलित्वा क्रमश उज्जयिनीमागत्य भद्रगुप्ताऽऽचार्यान्तिकमाययौ । सोऽवकू-भद्र ! त्वमधुना स्वत्रसरे किलाऽऽगाः, अहमिदानीमनशनचिकीरस्मि, तत्र साहाय्यं विधीयताम् । आर्यरक्षितस्तदादेशं सहर्षमुरीकृत्य तं पर्युपासितुमलगत् । अथैकदा भद्रगुप्ताचार्यस्तमेवमाख्यत् भोः ! वज्रस्वामिनः सुखेनाऽधीष्व, किन्तु तदभ्यासे रजन्यां मा स्थाः, आहारादिकमपि पृथगेव कर्त्तव्यम् । यतस्तेन सह सकृदपि यः शयिष्यते,
"
२ - असौ द्वाविंशत्यब्दिके वयस्येव दीक्षामग्रहीदिति सुमतिगणिरचित ' गणधर सार्ध - शतकबृहद्वृत्तौ' सर्वराजगणिकृततदीय लघुवृत्तौ चाडलेखि । उत्तराध्ययनादिटी काकृतः क्रियन्तस्तु तद्दीक्षां शिष्यचौर्योगज्ञामेव शासने व्याकुर्वन्ति स्म, वस्तुतः पित्रादेराज्ञां विना दीक्षापि स्वैन्यमदत्तादानमेव वास्ति |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org