________________
नवमं व्याख्यानम् ।
१२६ आर्यरक्षितसूरि-निबन्धः
स्थविरा:
प्रस्तुतपट्टावल्यां यद्यप्यार्यरक्षितादीनां नाम नोदलेखि, परमेते श्रुतधराः शासनप्रभावकाश्चाऽऽसन् । अतपवैषामपि प्रासङ्गिकं किञ्चित्स्वरूपं ग्रन्थान्तरादिह लिख्यते । अथ मालवे जनपदे दशपुरे ( मन्दसोरनगरे) नरपतिरुदयनाभिघ आसीत् । तस्य च पुरोहितः सोमदेवाऽऽख्यस्तत्पत्नी च रुद्रसोनाऽभिधाना तत्रैव न्यवात्सीत् । अमुष्याऽऽर्यरक्षित फल्गुरक्षिताऽभिधौ पुत्रात्रभूताम् । द्वावपि वेदाङ्गादिविद्यासु पारदृश्वानौ जातौ । ज्यायांश्च पाटलीपुत्रनगरं गत्वा वेदोपनि पदोवैशिष्ट्येन नैपुण्यमधिजग्मिवान् । ततो गुरुमापृच्छच गृहाSSतमेनं भूपतिर्महताऽऽडम्बरेण पौरजनैः सत्रा पुरं प्रावेश्य सदकरोत् । नृपतिदत्तमानपत्रेण सह निजसदनमागत्य पित्रादीन् प्रणम्य मातरं प्रणनाम । सा च विच्छायवदना सती स्वागतमात्रमापृच्छय मौनमशिश्रियत 1 ततस्तां हर्षस्थानेऽप्युदासीनामुपलक्ष्य तत्कारणमप्राक्षीत् माताऽभ्यधात् पुत्र ! यान्येतानि शास्त्राण्यध्यगीष्ठास्तानि सर्वाणि हिंसाप्राधान्याद गर्हितानि संसारपरिवर्धकान्येव सन्ति, तदध्ययनेन मे कथङ्कारं हर्षो जायेत ?, चेदात्मविशोधकं भवसन्ततिच्छेदकरं च दृष्टिवादमधीत्य समायातो भवेस्तर्हि मनो मे मोमुद्येत । तेनोक्तम् - मातः ! इदानीमपि तवाऽऽज्ञां परीतुं शक्नोमि, परन्तु तदध्यापयिता कः कुत्र च वरीवर्ति ? । माताऽत्रदत्-एतत्पाठयिता तोसलीपुत्र जैनाचार्य इतः कियद्दूरे इक्षुवाटके सपरिवारो निवसति तदन्तिकं गत्वा तमधीष्व । मातुरादेशं शिरसि निधाय प्रत्यूषस्येव स गृहान्निरगात् । अधिमार्ग कश्चिदेकः सार्धनवेक्षुपाणि: पितृसखो विप्रोऽमिलत् । सोऽतिप्रेम्णा तं जगाद वत्स ! त्वदर्थमेवैतानि क्षूनानयम् । अमुना शकुनेनेयन्मात्रमेव तदध्यायं परिच्छेदं वाऽध्येतुं शक्ष्यामि, नाधिकमिति निश्चिन्वानः स विप्रं मातुरन्तिकं यातुं संप्रार्थ्याऽ
Jain Education International
( २६१ )
1
१ - सोऽवक् - मान्यतम ! अमीक्षत्रो मे मात्रे देयाः, अहमधुना किमपि कार्यचिकीर्षु रन्यत्र व्रजामि । द्विजोऽपि तत्सदनमेत्य जनन्यै तानिक्षून् दत्त्वा सर्वमाचचक्षे । तदा तद्म्बा निरचिनुत-यन्मे शिशुः साधिकनवपूर्वाण्यध्येतेति, एवमुपदेशप्रासादग्रन्थेऽलखि ।
For Private & Personal Use Only
www.jainelibrary.org