SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ( ३३० ) श्री कल्पसूत्रार्थ प्रबोधिनी. 1 Sकारिषत । एतस्य विहारे प्रतिस्थानं विदुबामादरो याचकानां दान सम्माने, पदे पदे मौक्तिकैः स्वस्तिकरचनाः, स्वर्णकुसुमैर्वर्धापनानि च भवन्ति स्म । वैक्रमीय १६२८ वत्सरे फाल्गुन शुक्लसप्तम्यामहमदाबाद स्थाsकमीपुरप्रतो ज्यां निजगुरुभ्रात्रे जयविमलाभिधानाय मूलाश्रेष्ठिविहित महोत्सवेनाऽऽचार्यपदं ददित्वा विजयसेन सूरिरिति कृतवान्नाम । कृतवांश्च स्वकीयपट्टाधिकारिणम् । तस्मिन्नेवाऽवसरे लोंकागच्छीय पूज्यमेघर्षेः पञ्चविंशतिशिष्यैः सह तपोगच्छीयदीक्षां दत्त्वा विधाय च स्वशिष्य मुद्योतविजयेति नाम धृतवान् । शिष्या द्विसहस्रं श्रमण्यश्च चतुःशतमभूवन् । तेषु पंन्यासाः १५१, जैनविद्वत्तमा उपाध्यायाश्च सप्ताऽऽसन् । तच्छिष्येषु विमल- विजय - सागर - सुन्दरप्रमुखा अनेकाः शाखाः, आनन्द - हर्ष - सौभाग्य- विशाल - कुशलाऽऽदयः प्रशाखाश्चानेका बभूवुः । यदेतत्प्रशिष्याणां समुदायोऽपि भूयानासीत् । नानामुनिपरिवारमण्डितैतद्विहारे युगप्रधान समानमेवातिशयत्वमदृश्यत । वैक्रम १६३९ वस्सरी यचतुर्मासानन्तरं गन्धारबन्दरतो विहृत्य सौराष्ट्र - गुर्जर - मेद पाट - - मालवेषु प्राचीन जैनतीर्थयात्राचिकीः पथक - माssगतग्रामेषु निजदेशनाऽमृतं वर्षं वर्षं भव्याञ्जनांस्तपर्यन्नकब्बरपातिसाहस्याऽऽमन्त्रणेनाऽसौ विजयहीरसूरिज्येष्ठकृष्णत्रयोदश्यां फतेपुरसीकरीमागत्य, साहमिहोत्सवेन नानद्यमानेषु नानाविधवादित्रेषु महताऽऽडम्बरेण पुरम्प्रविश्य, जगमल्लकच्छवाह महेभ्यसद्मनि तस्थिवान् । तत्रैनं सर्वसम्मान विधान पुरस्सरं बादशाहः स्वसभायामाकारयत् । असौ च भूयो भूयः कृतशास्त्र गोष्ट्या बादशाहमकरोजीवदयानुपालिनम् । तदुपदेशेन प्रतिबुद्धो राजाऽकव्वरो गुर्जर सौराष्ट्रदेशीय १ मेवात - मण्डलीय २ मरुधरदेशीय ३ मालवदेशीय ४ पञ्चालदेशीय ५ सार्थे रक्षितुं १ देव विमलरचित - हीरसौभाग्यकाव्ये त्रिंशद्भिर्वीरविद्याधरकृत- हरिविजयस लोकाऽऽख्यभाषाकाव्ये च सप्तविंशतिभिः शिष्यैः सहैतद्दीक्षामुवाच । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy