________________
नवमं व्याख्यानम् ।
( ३३१ )
सूरये साधारणं च स्वीयमुद्राङ्कितमाज्ञा ( फुरमान ) पत्रषट्कं वितीर्य पर्युषणादिद्वादशदिवसेषु, प्रतिरविवारे, संक्रान्त्यां सर्वस्याम्, नवरोजीयमासे, सर्वस्मिन्नीदीवासरेषु, सर्वमिहिरवासरेषु, सोफीयानवासरेषु च सर्वत्र हिंसनं न्यषेधीत्, तत्याज च जीजीयाऽऽख्यं करम् । इत्थं सूरेरुपदेशतो डामर --- जयनललङ्काभिधानमहातटाकयोर्मीनमारणं त सीनि मृगयाकरणञ्च वारयितुं सर्वत्र मुद्राङ्किनं फुरमानपत्रं प्रेषयाञ्चक्रे । ततोऽदाच्चास्मै स्वसंगृहीतं हस्तलिखितदर्शनसिद्धान्त पुस्तकैर्भृतं सकलमेव ज्ञानभाण्डागारं सः । सूरिस्तत्सर्वमानीयाऽऽगरानगरीय ज्ञानकोशेऽतिष्ठिपत् । ततो लक्षव्ययाऽऽरन्धमहामहं वितन्वानोऽकब्बरसम्राट् समस्तविद्वदमीरोमराव गणमण्डितसभायामे तस्मै हीरविजयसूरये ' जगद्गुरु' इत्युपाधिं विततार । तेनैतस्मिन्ननेके यवनभूभुजो नितरामन्दरज्यन्, प्रतिपक्षिणोऽपि भूयांसो यावज्जीवं भक्तीभूयाऽसेवन्त ।
अकारि चामुनाऽन्तिमश्चातुर्मास उन्नतपुरे ( ऊनानगरे ), तत्र मासिकीं संलेखनामाराधनां च विधाय सं० १६५२ तमे वर्षे भाद्रपदसितैकादश्या रात्री स्वर्गवासं व्यदधात् । तत्रत्यसङ्घो बादशाहीयमहोत्सवं वितन्वन्नग्निसंस्कारमकरोत् । तत्र च द्वीपबन्दरवासी पारखगोत्रीय मेघाऽख्यः श्रेष्ठी स्तूपेन सह चरणेऽतिष्ठिपत् । तत्प्रतिष्ठा च श्रीविजयदेवसूरिपाणिसरोजेन जज्ञे । तदर्चार्थमकब्बरो द्वाविंशतिकुडवमिता भूमीः प्रददे । एवमेष विजयहीरसूरिरपि जैनशासने महाप्राभाविको बभूव ।
१३५ श्रीविजयदेवसूरिनिबंध :
श्रीराज देशमण्डन ईडरगढनगरे वैक्रमे १६३४ वर्षे जनिमीयिवानसौ । सं० १६४३ तमे वत्सरे मात्रा सत्रा दीक्षां जग्राह । सं० १६५५ तमे हायने पण्डितपदभागजायत । सं० १६५६ तमेऽब्दे च स्तम्भतीर्थे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org