________________
( ३३२ )
श्री कल्पसूत्रार्थप्रबोधिनी.
८
आचार्यपदेन शुशुभे । अत्रोत्सवे सर्वव्यवहारिश्रेणिशिरोमणिः श्रीमलश्रेष्ठी निजभ्रातृजेन सोमाऽऽख्यश्रेष्ठिना सह न्यायार्जितं निजरायं व्येतुमना धन्व - मेदपाट-लाट- सौराष्ट्र-कच्छ - कुङ्कण-गुर्जरादिदेशीयनगरेषु सर्वेषु कुंकमपत्रिका: सम्प्रेष्य समस्तसङ्घमामन्त्रयामास । अगण्याः श्रावकाः श्राविकाश्च तत्रोपतस्थिरे । श्रीमल्ल श्रेष्ठी स्वर्गस्पर्द्धिनं दिव्यतमं मण्डपं निर्माय गच्छाधिपतिं विजयसेनसूरिं च सूरिपदप्रदित्सया सादरमानाय्य, महता महोत्सवेन वैशाखशुक्लचतुर्थीदिने शुभे च लग्ने तस्मा आचार्यपदं प्रादापयत्, निरचिनोच्च विजयदेवसूरिः' इत्याख्यानम् । मल्लश्रेष्ठिना सुसेवितः समस्तसङ्घ एनं भृशं प्रशशंस | अस्मिंश्च महामहे श्रीमल्ल श्रेष्ठी १०,००० ठक्कुर कीकाभिधः श्रावकश्च ८००० रूप्यकाणि व्यैत् । ततो सं० १६५८ वर्षे पत्तननगरनिवासी परीक्षक - सहस्रवीराऽऽख्यः पञ्चसहस्रं दीनारान् वीत्य गच्छानुज्ञानन्दिमहोत्सवं वितेने । एतव हायने विजयदेवसूरिरहमदाबादे द्वे, पत्तने चतस्रः, स्तम्भतीर्थे तिस्रः प्रतिष्ठाः कृत्वा, इलादुर्गे चतुर्मासीमकृत । तत्रत्यः सङ्घस्तदुपदेशेन जैनदर्शनमहिमाऽऽदर्श भूताऽनेकमहोत्सवानकार्षीत् । यानुदीक्ष्येला दुर्गपती राजा कल्याणमल्लो नितरां प्रसयैकदा स्वभः सहाऽऽचार्येण तर्कवादं कारितवान् । आचार्यादिष्टः पं० पद्मसागरस्तस्यां सभायां जायमाने च तर्कवादे लीलयैव प्रकाण्डतर्कशक्त्या महांस्ता अजयीति स्म । तदा भहैः सार्धं नरनाथ आचार्यचरणसरोजौ सादरं ववन्दे |
चतुर्मासानन्तरमसौ बृहन्नगर ( वडनगर ) मागत्याऽऽष्टाहिकमहोत्सवेन श्रीवीरप्रतिमां प्रतिष्ठाप्य समागत्य चाहमदाबादनगरं चतुरो मासांस्तस्थिवान् सङ्ग्रातिशयप्रार्थनया । बभूव चैतदुपदेशेन तत्राऽनेकधर्मकार्यम् । तदवसाने नटीपद ( नडियाद ) नगरमागत्य महामहेन प्रतिष्ठां कृतवानयमाचार्यः । इलादुर्गनगरीय - दुर्गस्थ चैत्य - श्री आदिनाथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org