________________
नवमं व्याख्यानम् ।
( ३३३) प्रतिमा यवनैः खण्डिताऽऽसीत् , अत एव तत्रत्यसङ्घस्तत्प्रतिमां नवां कारयित्वा नडियादे प्रेषीत् तस्या अप्यञ्जनशलाकाऽस्यामेव प्रतिष्ठायाममुना विजयदेवसूरिणाऽकारि । अस्थापि च निजकरकमलाभ्यामिलादुर्गस्थितसमुद्धारितं सुचैत्ये । अथैकदा स्तम्भतीर्थस्थितमेनमाचार्य मण्डपाचलादकब्बरबादशाहसूनुर्जहांगीरशाह आमन्त्रणपत्रं प्रदाय समायत । तत्र गमनेनाऽनेकविधलाभपर्यालोचनया सोऽपि ततो विहृत्य क्रमशस्तत्राऽऽगात् । तदा जहांगीरशाहस्तेजोमयीं तन्मूर्तिमालोक्य संश्रुत्य च पीयूषस्यन्दिनीं विद्वत्ताऽऽढ्यां तद्देशनां नितरां प्रससाद । ततो निजकृताऽद्भुताऽद्भुतप्रश्नोत्तरश्रुत्या च वैपक्षिकजनजानतो विभ्रमस्तन्मनसस्तदैव निरगच्छत् । अब्रवीच्चैवम्-श्रीहीरविजयसूरेः पट्टाधिरोही सर्वाधिपतिश्च भवितुमर्हत्ययमेव विजयदेवसूरिः । ततो महामहं वितत्य — जहांगिरीमहातपाः' इति विरुदं विजयदेवसूरये ददिवान् । ___ आचार्यस्ततो विहृत्य गुर्जरं गत्वा सौराष्ट्रदेशीयद्वीपबन्दरमागत्य फिरङ्गीवादशाहस्याऽत्याग्रहेण चतुर्मासद्वयीं तस्थिवान् । ततो विहृत्य हालारप्रान्तीयनवानगरमागत्य भव्याञ्जनान् प्रतिबोध्य, सिद्धाचलतीर्थयात्राञ्च कृत्वा स्तम्भतीर्थे चतुर्मासी यावदतिष्ठदसकौ । तदनु ततो विहृत्य सांभलीनगरमगात् । तत्राऽयं मासत्रयीं तीव्रक्रियानुष्ठानं विदधत्सूरिमन्त्रमजापीत् , अकार्षीच्च सङ्घाऽऽग्रहेण चातुर्मासं तत्रैव । तदनन्तरं महता महेन द्वे प्रतिष्ठे विधिवद्विधाय तस्माद्विहृत्य समागतवानीडरदुर्गम् । अत्रापि तिस्रः प्रतिष्ठाः कृत्वा सह सङ्घनाऽऽरासणतीर्थयात्रामकृत । ततः पोसीनानगरमागत्य पञ्चजीर्णचैत्यानि समुद्धार्य प्रतिष्ठापयाम्बभूव, तस्मिन्नेवाऽवसरे आरासणतीर्थहेतवेऽपि मुलनायकबिम्बाञ्जनशलाकाञ्चके । ततः कतिपयग्रामेषु जनान् धर्ममुपदिशन्नेष राज्ञः कल्याणमल्लस्याऽत्याग्रहादिलादुर्गमाजगाम । अत्र सुश्रावक-सहजूमहेभ्यप्रारब्धमहामहेन सं० १६८१ वर्षे वैशाखशुक्लषष्ठ्यां विजयसिंह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org