________________
(३३४)
श्रीकल्पसूत्रार्थप्रबोधिनी. स्याऽऽचार्यपदं ददिवानसौ । एतत्सदुपदेशात् कल्याणमल्लो राजा ' रणमल्लचोकी ' नामनि गिरौ भव्यमेकं सुमन्दिरमचीकरत् ।
चातुर्मासाऽनन्तरमनेकमुनिभिः संधैश्च समुदितैः परिवृतोऽयमबुंदाचलतीर्थयात्रां कृत्वा सिरोहीनगरमीयिवानाचार्यवर्यः । संघाऽत्यनुनयेन चतुर्मासीमपि तत्राऽकरोत् । चातुर्मासे चाऽनेकपुरनगरेभ्यो बहुसंख्यान्वितः सङ्घसमुदाय एतस्य सूरेर्दिदृक्षया समैत्, अबोहोच्च महीयसी शासनसमुन्नतिः । अत्रान्तरे सादडीनगरे समेता लुम्पका एकीभूय जिनप्रतिमानिन्दा व्यातन्वते स्म । तदसहमानस्तत्रत्यः सङ्घ स्तदैवैतदन्तिके विज्ञप्तिपत्रम्प्रेषीत्-" स्वामिन् ! त्वादृशे विजयमाने प्रभाविके चाऽऽचार्ये विद्यमाने लुम्पका आहतीः प्रतिमा निन्दन्तो नः सर्वान् भृशं खेदयन्ति । अतस्तानाशु विजित्य सङ्ग्रे सुखं वितनितुमिहाऽऽगम्यताम् ।" तद्वाचयित्वा स गीतार्थान् सुनिवरांस्तत्र गन्तुं समादिदेश। तेऽप्यप्रतिबद्धविहारेण सादडीमागमन्, तदागमनमाकण्येव लुम्पकास्ततः पलायन्त । मुनयोऽपि तानेवाऽनुगच्छन्त उदयपुर मागत्य महाराणाकर्णसिंहस्य सभायां चर्चा कृत्वा, ताल्लुम्पकान् विजिज्ञिरे । ततो महाराणा कसिंहो भृशं प्रसद्य सर्वत्रोद्घोषयामास'तपोगच्छः सत्यः, लुम्पको मिथ्यैवाऽस्ति ।' ततो मुनिवरा राणाप्रदत्तमुद्राङ्कितं विजयपत्रमादाय सादडीमागत्य श्रीसङ्घमदर्शयन् । तद्वाचनेन सङ्घसमुदाये महानानन्दस्तपोगच्छे महती प्रभावना च प्र. ससार, तदनु जोधपुराधीशगजसिंहनरेशस्य प्रधानमन्त्रिजयमल्लप्रार्थनया जालोरगढमागासः । तत्र च स्वर्णगिरितीर्थस्थ-मन्दिरेषु प्रतिष्ठां व्यदधात् । एतदुपदेशेन सं० १६८४ वर्षे मन्त्री जयमल्लो विजयसिंहसूरेगच्छानुज्ञानन्दीमहोत्सवं ततान । ततः स मेडतानगरमागत्य प्रतिष्ठाश्च विधाय, विन्ध्यपुरे (बीजोवायां ) चातुर्मासं चक्राणः, तदैव महाराणा. जगत्सिंह आचार्यस्याऽपूर्वज्ञानेन रञ्जितो भूत्वा वरकाणापार्श्वनाथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org