________________
नवमं व्याख्यानम् |
( ३३५ )
यात्रां कुर्वतां करादांनमुज्झाञ्चकार । तदन्ते सङ्केन सार्धमसौ राणकपुरादितीर्थानां यात्रां सुखेन कृतवान् । तत्र ' झालाकल्याणजी' मेदपाट पवित्रयितुमाचार्यं भृशमाजग्राह । तदभ्यर्थितस्तदिश्येव स विजहे । अधिमार्ग खाणोरग्रामे द्वे, देवकुलपाटके चैकम, नाहीग्रामे एकाम्, अबोटापुर्यामेकाम्, एवं पञ्चप्रतिष्ठां कृत्वाऽयमुदयपुरमागत्य चातुर्मासमकृत । ततो दशबादलाऽभिधाने राजहर्म्ये चतुर्मासीं चत्रिवान् । अत्र हि महाराणा जगत्सिंहस्तद्देशनाश्रवणेन पीछोलाSSख्याने, उदयसागराभिधाने महासरोवरे च मीनानां घातनं ग्रहणं च १, राज्याभिषेकदिवसेमारीपालनम् २, भाद्रपदे जीवानामहिंसनम् ३, मचिन्ददुर्गे जीर्णकुम्भलविहाराऽऽख्यचैत्योद्धरणम् ४, इतीमाञ्चतुरो नियमानग्रहीत् । तद्दिवसात्कुमारपालनरनाथो हेमचन्द्राचार्यमिव महाराणा विजयदेवसूरिं सम्मानयितुमलगत् ।
अयमाचार्यो हि मालवेऽवन्तिका दौ, दक्षिणे बीजापुरवदनीपुरादौ, कच्छदेशे भुजनगरादौ, धन्वनि जाबालिपुरमेदिनीपुरादौ जीर्णोद्धारपूर्वकं शतशो जिनबिम्बानां प्रतिष्ठाञ्जनशलाका अकरोत्, अदाच्चाऽनेकश्रमणेभ्यः पंन्यासपदम्, पाठकपदमाचार्यपदञ्च । इत्थमेष यवनराजानने का हिंसां त्याजयित्वाऽऽर्हतधर्माभिमुखान् कुर्वन् विजयसिंहसूरिप्रमुख मुनिवरैः शतशः सत्रा विहरन् प्रभावकत्वपद भागजायत । अमुमिञ्जीवति सति कियन्त्यपि चित्राणि कार्याणि जातानि । तथाहिसं० १६७३ तमे वर्षे विनिर्गतोपाधिमतानुयायिन्यौ खंभातनिवासिनो देवचन्द्रश्रेष्ठिनो द्वे भार्येऽवर्तेताम् । कालान्तरे च श्रेष्ठी मृत्वा देवीभूय ते स्वस्त्रियों देवसुरेरुपासिन्यौ विधाय स्वयमष्टादश देवैस्तद्भक्तिमकरोदित्येकमाश्चर्यम् । गोघाबन्दरे सोमाख्यश्रेष्ठिनः कुटुम्बवर्गो देवसूरेर्विमुखीबभूव, केवलमेक एव श्रेष्ठी सूरिं जुषमाण आसीत् । स च कालं कृत्वा देवत्वमधिगत्य सकलं स्वकुटुम्बमेतद्भक्तमकार्षीदिति द्वितीयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org