Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 382
________________ नवमं व्याख्यानम् | ( ३३७ ) गमौ कर्त्तुमवगृह्णीयात्, अवग्रहात्परं क्षणमपि नाऽवतिष्ठेत् । एतावन्तं कोशं गोचर्या अपि गन्तुमर्हतीति गमाऽऽगमविषया द्वितीया । (३) चतुर्मास्यामेकत्रस्थैः साधुभिः साध्वीभिश्चाऽन्तराले काचिबहुलजला तटिनी वहन्ती चेत्तामुत्तीर्य नैव गन्तव्यम् । यत्र तु कुणालानगराऽऽसन्ना विपुलतरैरावती नदीव प्रावृष्यपि विच्छिन्नप्रवाहेण स्तोकजला नदी वहति, तत्रैकं पादं वारि स्थले चाऽपरं निधाय तामुतीर्य चतुर्दिशं पञ्चक्रोशीं गच्छेयुः, इति नद्युत्तरणसम्बधिनी तृतीया । ( ४ ) गुर्वाज्ञया ग्लान साधवे साधुराहारादिकमानेतुं कल्पते नेतरथा । गुरुनिर्देशादात्मार्थमानीतं परस्मै दातुं न कल्प्यते, परन्तु गुरुरेवमादिशेत्त्वं याहि, ग्लानार्थं परार्थं स्वार्थञ्चाऽपेक्षितमानीयतामिति चेत्कल्पयमेव तदिति साधूनां मिथोदानाऽऽदानविषया चतुर्थी । (५) चतुर्मासीस्थैः साधुभिः साध्वीभिश्च दधि-क्षीर-नवनीतघृत-तैल-गुड- मधु-मद्य - मांसेतिनवविकृतिषु मद्य - मांस-मधु - नवनीतेति विकृतिचतुष्टयं सदा हेयमेव । शेषाश्चाऽपि नीरोगसबलैर्नैयत्येनाऽनादेयाः, सति च कारणे ग्राह्याः पर्युषणे तु शेषा अपि त्याज्या एव । सति च कारणमहत्वे बाह्यपरिभोगार्थं शास्त्रोक्तदिशा भद्य-मांसौ, भैषज्यार्थं मधु - नवनीतौ चाऽपवादतया ग्राह्माविति विकृतिविषया पञ्चमी । (६) कश्चिद् ग्लानमुनिः श्रावकसदनादपेक्षितं किमपि लातुं वदेत्, तर्हि गुरुं विज्ञप्यैव साधुस्तदर्थं तल्लातुमर्हति । तदप्यधिकं दीयमानमपि नाऽऽददत, तस्य यावन्मात्रं यदपेक्षितं तदर्थं तावन्मात्रमेव ग्राह्यं, न न्यूनाधिकम् । यदि लाभयिताऽऽगृह्याऽभ्यर्थयेत - साधो ! गृहे चैतद्बहुलं विद्यते, यथेष्टं गृहाण, स्वस्याऽनुपयोगे परस्मा अपि देयम्, ४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408