________________
नवमं व्याख्यानम् |
( ३३७ )
गमौ कर्त्तुमवगृह्णीयात्, अवग्रहात्परं क्षणमपि नाऽवतिष्ठेत् । एतावन्तं कोशं गोचर्या अपि गन्तुमर्हतीति गमाऽऽगमविषया द्वितीया ।
(३) चतुर्मास्यामेकत्रस्थैः साधुभिः साध्वीभिश्चाऽन्तराले काचिबहुलजला तटिनी वहन्ती चेत्तामुत्तीर्य नैव गन्तव्यम् । यत्र तु कुणालानगराऽऽसन्ना विपुलतरैरावती नदीव प्रावृष्यपि विच्छिन्नप्रवाहेण स्तोकजला नदी वहति, तत्रैकं पादं वारि स्थले चाऽपरं निधाय तामुतीर्य चतुर्दिशं पञ्चक्रोशीं गच्छेयुः, इति नद्युत्तरणसम्बधिनी तृतीया ।
( ४ ) गुर्वाज्ञया ग्लान साधवे साधुराहारादिकमानेतुं कल्पते नेतरथा । गुरुनिर्देशादात्मार्थमानीतं परस्मै दातुं न कल्प्यते, परन्तु गुरुरेवमादिशेत्त्वं याहि, ग्लानार्थं परार्थं स्वार्थञ्चाऽपेक्षितमानीयतामिति चेत्कल्पयमेव तदिति साधूनां मिथोदानाऽऽदानविषया चतुर्थी ।
(५) चतुर्मासीस्थैः साधुभिः साध्वीभिश्च दधि-क्षीर-नवनीतघृत-तैल-गुड- मधु-मद्य - मांसेतिनवविकृतिषु मद्य - मांस-मधु - नवनीतेति विकृतिचतुष्टयं सदा हेयमेव । शेषाश्चाऽपि नीरोगसबलैर्नैयत्येनाऽनादेयाः, सति च कारणे ग्राह्याः पर्युषणे तु शेषा अपि त्याज्या एव । सति च कारणमहत्वे बाह्यपरिभोगार्थं शास्त्रोक्तदिशा भद्य-मांसौ, भैषज्यार्थं मधु - नवनीतौ चाऽपवादतया ग्राह्माविति विकृतिविषया पञ्चमी ।
(६) कश्चिद् ग्लानमुनिः श्रावकसदनादपेक्षितं किमपि लातुं वदेत्, तर्हि गुरुं विज्ञप्यैव साधुस्तदर्थं तल्लातुमर्हति । तदप्यधिकं दीयमानमपि नाऽऽददत, तस्य यावन्मात्रं यदपेक्षितं तदर्थं तावन्मात्रमेव ग्राह्यं, न न्यूनाधिकम् । यदि लाभयिताऽऽगृह्याऽभ्यर्थयेत - साधो ! गृहे चैतद्बहुलं विद्यते, यथेष्टं गृहाण, स्वस्याऽनुपयोगे परस्मा अपि देयम्,
४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org