SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ( ३३८) श्रीकरुपसूत्रार्थप्रबोधिनी. तदाऽनपेक्षितं तदधिकमपि ग्राह्यमितरथा नेति ग्लानिनामपेक्षिताऽऽनीतवस्तुदानविषयिणी षष्ठी। (७) समस्तसाधुभ्यः साम्यधिया दित्सूनां श्राद्धानां नवश्रद्धावतां वा सदने गत्वाऽदृष्टं किमपि नैव याचेरन् साधवः। यतस्ते सर्वप्रदत्वाच्छ्रद्धाऽऽधिक्याद्वा सदने तदभावेऽदत्तं क्रयेण वाऽप्यानीय दद्यु. श्चेत्साधवो दोषभीयुरतस्तदकल्प्यमेव श्रमणानामित्यदृष्टवस्तुयाचनविषया सप्तमी। (८) चातुर्मास्यां साधुभिः साध्वीभिश्चाऽसति प्रतिबन्धके प्रत्यहं सकृदेव भोक्तव्यम् । स्वार्थ परार्थ वा गोचर्या अपि श्रावकौकसि सकृदेव गन्तव्यम् । परमाचार्योपाध्यायग्लानतपस्विनां शिशूनामनगुरितकूर्चकानां साधूनां, अजातरजस्कानां साध्वीनाञ्च हेतवे द्वित्रिवारमाहारा. द्यानयने प्रतिबन्धो नास्ति । उपवासिनोऽपि मुनयः पारणादिवसे श्रावकसदनादेकवारमानीय भुक्त्वा तृप्तीभूय पात्रादिकं प्रमाय॑ पुनर्गोचर्यै नो ब्रजेत् , अतृप्तश्चेत्पुनर्गमने न क्षतिः । विहितषष्ठतपसस्तु द्विवारमानीय भुञ्जीरन् । अष्टमं तपो विधाय त्रिवारं गोचरीमानीय भोक्तुमर्हेत् । इतोऽधिकतपो विदधतां पारणायै यथेच्छं गोचर्यं गमने न कापि हानिरिति गोचरीगमनविषयाऽष्टमी। (९) प्रावृषि नित्यमेकाशिनः साधोराचारागसूत्रोक्तानि सर्वाण्येकविंशतिविधानि पानकानि ग्रहीतुं कल्पन्ते । एकान्तरोपवासिनः साधोः पिष्टादिलिप्तपात्रप्रक्षालनजलम, कथितपत्रादिसेचनजलम्, तण्डुल १ उत्सेदिमम् १, संस्वेदिमम् २, तण्डुलधावनम् ३, तुषोदकम् ४, तिलधावनम् ५, यवोदकम् ६, अवश्रावणम् ७, सौवीरम् ८, उष्णोदकम् ९, भाम्रोदकम् १०, भम्बाडोदकम् ११, कपित्थोदकम् १२, मातुलिङ्कगोदकम् १३, द्राक्षोदकम् १४, दाडिमधावनम् १५, खजूरधावनम् १६, श्रीफलोदकम् १७, करीरधावनम् १८, वदरधावनम् १९, भामलकोदकम् २०, चिश्चाधावनम् २१; इत्येकविंशतिपानकानि । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy