________________
नवमं व्याख्यानम् ।
( ३३६ )
क्षालनजलञ्श्चेति त्रीण्येव कल्पन्ते पानीयनि । नित्यं षष्ठं तपः कुर्वतान्तु तिलधावनतुषक्षालन - यवप्रक्षालन जलानि त्रिविधान्येव ग्रहीतव्यानि । सदाष्टमतपस्विनस्तु साधोरवश्रावणकाञ्जिकोष्णोदकानीति त्रैधान्येव जलानि लातुं कल्पन्ते । इतोऽधिकमुपवसतः साधोर्वगलितमेकमुष्णोदकमर्हति ग्रहीतुम् । विहिताऽनशनस्य साधोरेकमात्रमुष्णं वारि कल्पते, तदपि स्तोकं स्तोकं गलितं परिमितञ्च कल्प्यते इति जलपानसम्बन्धिनी नवमी ।
"
(१०) प्रावृषि संस्थितः साधुर्यावद्दत्तिप्रमाणमाहारं पानकं वाऽभिगृहीयात्, तावतीमेव दत्तिं स गृह्णीत, न्यूनाधिकं व्यत्यस्तं वा न । यदेकधारेण स्तोकं बहु वा दीयते सा दत्तिरुच्यते । इति दत्तिप्रमाणविषया दशमी ।
(११) चतुर्मास्यां मुनिर्यस्मिन्नुपाश्रये तिष्ठेत्तमारभ्य सप्तगृहेषु न भिक्षेत, तत्रैकं शय्यातरमितराणि षडासन्नत्वेन साधुगुणानुरागादुद्गमादिदोषोद्भवसम्भवाच्च । सोपाश्रयं सप्तगृहवयं, शय्यातरगृहादितरगृ। हाणि च सप्त वर्जयन्त्येके । एतत्सप्ताष्टगृहेषु जातीयजेमनवारेऽपि नो भिक्षेत, इति संखडीविषयिण्येकादशी ।
( १२ ) प्रावृषि फुसारमात्रेऽपि जलनिपाते सति जिनकल्पिनः साधवः श्रावकागारे भक्तार्थं पानार्थं वा नो गच्छेयुर्न वा करपात्रस्य साधोर्भिक्षामादाय निरावरणे देशेऽवस्थातुं कल्पते । निरावृते प्रदेशे भुञ्जानः करपात्रः साधुरकस्माद्वृष्टिकाये पतितुं लग्ने सति भुक्ताऽवशिष्टं पाणिना पिधाय वक्षसि कक्षे वा गुप्तं कृत्वा स्वार्थाऽऽच्छादितगृहिसदने वृक्षादितले वा समागत्य जलाददूषितञ्चेद् भुञ्जीत, जलार्द्रश्चेत्यजेदेवेति जिनकल्पिनां गोचरीगमनविषया द्वादशी ।
(१३) प्रावृषि स्थविरकल्पिनां साधूनां निरवच्छिन्नधारया मेघे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org