________________
(३४०)
श्रीकल्पसूत्रार्थप्रबोधिनी. वर्षात सति भक्तपानार्थं नैव गन्तव्यम् । कस्यचिद्ग्लानस्याऽशक्तस्य क्षुधातुरस्य चिरोपोषितस्य वा हेतवे वृष्टिकायाऽल्पत्वे सौत्रोणिकाभ्यां वस. नाभ्यां सावृतो भिक्षार्थ निर्गच्छेच्छन्न हानिः। गृहस्थसदनप्रवेशानन्तरं विरम्य विरम्य स्तोकवृष्टौ साधुरारामे मण्डपाऽधस्तरोस्तले उपाश्रये वा समागच्छेत् । भिक्षितुं सदनमनुप्रविष्टस्तु समागतायाञ्च वृष्टौ प्राग् निष्पादितमोदनादिकं लातुं कल्पते, पश्चादुत्तारितं यद्यद् भवेत्तत्तन्नैव कल्प्यम् । इत्थं साधोरागमनात्प्राक् खहेतवे यद्यत्पाचितं गृहिभिस्तदेव प्रासुकभ. क्तसूपव्यञ्जनादिकं प्रतिग्राह्यम् । श्रावकैराहारे प्रतिलाभिते स्थित्वा स्थित्वा वर्षा पतेच्चेदारामे तरोस्तले वा सावृतदेशमागत्य भुञ्जीत भोजनवेलां नातिकामेत् । तत्रस्थेनापि साधुना भुक्त्वा पीत्वा पात्राणि निर्लिप्तानि कृत्वा कक्षीकृतपात्राद्युपकरणः प्रावृतगात्रो वर्षत्यपि जलदे सूर्यास्तात्प्रागेवोपाश्रये समागच्छेद्रात्रावेकाकी बहिर्नावतिष्ठेत, बहिःस्थस्य साधोरनेके दोषा उत्पद्यन्ते वसतिस्थिता वा साधवोऽधृति विदधति । साधोः साध्व्याश्च गोचर्यै गृहस्थसदनमुपगतप्त्य वृष्टेरविरतो सत्यामारामादौ केन विधिना स्थातुं कल्पते ?, तदाह
साधुना सहैकत्र साध्वी नैवाऽवतिष्ठेत, वा द्वौ साधू नैकया साध्ठया, एको वा साधुभ्यां साध्वीभ्यां, वा द्वौ साधू द्वाभ्यां सहैकत्र नैवाऽवतिष्ठेयाताम् । तत्रापवादमाह-क्षुल्लकः क्षुल्लिका वा पञ्चमस्तन्मध्यपाती चेदेकस्मिन्नपि सर्वतो द्वारे सकललोकदृश्ये स्थाने स्थातुं कल्पते । एवं चतुर्भङ्गः साधोः श्राविकया, साध्व्याश्च श्रावकेनाप्यवगन्तव्यः । अथवा क्षुल्लकादिपञ्चमं विनापि वर्षति मेघे नियतकर्मकलोहकारादौ निजकर्मतत्परे पश्यति सति निरावृतस्थाने साधोः साध्याश्च सहस्थितिः कल्पत इति गौचर्यं गतानां साधुसाध्वीनामेकत्रवासविषया त्रयोदशी।
(१४ ) साधुः साध्वी वा कथनमन्तरा कस्यापि हेतोराहारादिकमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org