________________
नवमं व्याख्यानम् ।
(३४१) नेतुं नैव कल्पते। पृष्ट्वा वा यावन्मानं लातुमुच्येत तदर्थं तावदेवाऽऽने. तव्यं न्यूनाधिकं न । यदपृच्छयाऽऽहाराद्यानयने कलहादिदोषा उत्प. द्यन्ते, इति कथनमन्तरा परार्थाऽऽनयनविषया चतुर्दशी।
(१५) प्रावृषि यावन्तं कालमाईदेहस्तावतीं वेलां साधुः साध्वी वा नाऽभ्यवहरेत, यतो बाहुल्येन पाणी, पाणिरेखा, नखाः, नखायं, भ्रुवो. नॆत्रयोश्चोर्ध्वरोमाणि, दाढिका, इमश्रूणि चैतानि सप्तस्थानानि क्लिन्नानि भवन्ति । अत एतानि शुष्काणि कृत्वैवाऽशनादिकमशितव्यमिति क्लिन्नशरीरवतामाहारनिषेधविषया पञ्चदशी ।
(१६) प्रावृषि प्राण-पनक-बीज-हरित-पुष्पाऽण्ड-विल-स्नेहकायिका अष्टौ सूक्ष्माः कृष्णनीलपीतरक्तासितेति पञ्चवर्णा बहुश उत्पद्यन्ते । तत्र प्राणसूक्ष्मा:-कुन्थ्वादयो जीवाः, पनकसूक्ष्माः साधारणसूक्ष्मवनस्पतिविशेषाः, बीजसूक्ष्माः-शाल्यादयः, हरितसूक्ष्मा-नवोद्भिनाङ्कुरवनस्पतिरूपाः पृथ्वीसमानवाः, पुष्पसूक्ष्मा-वटोदुम्बरादयः, अण्डसूक्ष्मा-मक्षिकामत्कुणलूतापिपीलिकाहलिकाशरटीप्रमुखाः, बिलसूक्ष्मा-बल्मीकशुष्कभूमिपर्पटिकाशुण्डिकादिजीवानां सदनानि, स्नेहसूक्ष्माः-तुषार-धूमरी-करका-कुशाग्रस्थजलबिन्दवः । अतिसौक्ष्म्याच्छद्मस्थैर्द्रष्टुमशक्यत्वाच्चैतेषां रक्षणार्थं पुनः पुनरवलोकेरन्, प्रतिलिखेयुः, परिहरणीयतया विचारयेयुश्चेति सूक्ष्मरक्षणविषया षोडशी।
(१७) प्रावृषि संस्थितः साधुः साध्वी वाऽऽहाराद्यानयन-जिनालयगमन-स्थण्डिलभूमिगमन-स्वाध्यायध्यान-धर्मजागरण-दधिक्षीराद्यानयन-भैषज्यानयनादिसर्वं गणधराऽऽचार्योपाध्यायस्थविरगाणिगणावच्छेदकान्, यं वा पुरस्कृत्य विहरेत् तमापृच्छयैव कुर्यादितरथा न, यदेते प्रत्युपायवेत्तारः । एवं प्रशस्तमुपसर्गहरं कल्याणकारि, महाप्रभाविकं तपःप्रमुखमपि गुर्वाद्यादेशेनैव विधातुं कल्पते नेतरथा । अन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org