Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 405
________________ ( ३६० ) श्री कल्पसूत्रार्थ प्रबोधिनी. गन्तुमर्हति कापि गतस्य क्वचित्प्रतिबन्धे जाते गुर्वादिः कालविलम्बादिना तद्विदित्वा कमपि तद्भवेषणाय प्रेषयेत्तेन गुरुमुक्तैव गन्तुं कल्पते, नान्यथेति संसूचितगमनविषया पर्विंशतितमा । २७ प्रावृषि साधूनां साध्वीनाञ्चषधाद्यर्थं वैद्यपार्श्व चतुःपञ्चयोजनान्तं गमनं कल्पते, परन्तु तद्दिन एव सूर्यास्तकालतः प्रागेव स्वस्थानमागच्छेत्तत्र तु नैव तिष्ठेत् । स्वस्थानं पुनरागन्तुं नो शक्नुयाच्चेन्नगराद्वहिरागत्य तिष्ठेत्, तत्रापि नार्हेदागन्तुं तर्हि मार्गमध्ये तां निशां गमयेत् इति भैषजाद्यर्थ- गमाऽऽगमविषया सप्तविंशतितमा । " २८ इत्थं स्थविरकल्पिनो भगवदुक्त - रत्नत्रयीमार्गं भजेरन्, मनसा वचसा कायेन च निरतिचारं संयमं परिपालयेयुः । इत्थमेव यावज्जीवमाराध्य लोके कीर्त्तिमण्डितात्मानः कियन्तो निर्ग्रन्थाः श्रमणाः क्षपितकर्माणस्तद्भव एव मोक्षमधिगच्छन्ति, कियन्तस्तृतीयस्मिन्भवे सर्वदुःखैर्मोच्यन्ते कियन्तश्च सप्ताष्टमभवे, ततोऽधिकन्तु नैव द्रक्ष्यन्तीति मर्यादापालनफलविषयाऽष्टाविंशतितमा । 6 एवं राजगृहनगराssसन्ने गुणशैलाऽऽख्ययक्ष चैत्ये बहुसाधु-साध्वीश्रावक-श्राविका - देव - देवीवृन्दपरिमण्डितमहासभायामासीनो भगवामहावीरप्रभुः पर्युषणकल्पमेतदध्ययनं सप्रयोजनम्, 'गुरूनापृच्छय सर्वं कर्त्तव्यं यदाचार्याः प्रत्यपायं जानन्ति इत्यादिहेतुसहितम्, अंतराविय से कप्पइ ' इत्याद्यपवादयुक्तम्, सूत्रार्थेन तदुभयेन च संयुक्तम्, व्याकरणयुतञ्च वारम्वारमाख्यातवान्, प्ररूपितवानेवं फलकथनरूपेण, संक्रामितवांश्च समस्तश्रोतृवृन्दहृदयसदने । एतत्सकलापि वाचना सुधर्मजम्बूस्वामिनोरेवाऽस्ति । तत एतद्दशाश्रुतस्कन्धसूत्रीयाऽष्टमाध्ययन रूपेण भद्रबाहुस्वामी स्वशिष्यान् प्रत्याचष्ट । " Jain Education International For Private & Personal Use Only 3 www.jainelibrary.org

Loading...

Page Navigation
1 ... 403 404 405 406 407 408