Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala
________________
( ३५८ )
श्री कल्पसूत्रार्थप्रबोधिनी.
"
न्तिकमागत्य मुन्युपकरणमशेषं गुरवे समर्प्य, मदिरामांसत्यागेन स्थेय मिति गुरुदत्तमभिगृह्य पुनस्तदोकसि स आययौ । तत्कन्याद्वयं परिणीय गृहजामाता भूत्वा नटौकसि तस्थिवान् । अनुबभूवांश्च ताभ्यामूढाभ्यां सत्रा स्वैरं वैषयिकं सुखम् । तत्रैकदा कश्चिद्वैदेशिको नटः समागत्यैवमुदघोषयत् - चेदस्ति कश्चिदत्र नाटकीविद्यायां पटीयांस्तर्हि मया सार्धं विवदताम् । स नटस्तमाकर्ण्य निवारितवान् प्रेषितत्रांश्व राजसभायां तेन सह विवदितुं तमेव जामातरम् । तदवसरे तत्पत्न्यौ मद्यं निपीय यथेच्छं मांसं बुभुजाते । अषाढभूतिस्तु तत्र राजसदसि पश्यत्सु नृपादिदर्शकेषु विद्यायोगाल्लीलयैव वैदेशिकं तमजैषीत् । ततो नृपादिष्टः स्वौकसि समेत्य कपाटं खटखटाञ्चकार । तच्छ्रुत्वा दुर्गन्धिनाऽऽशितं मद्यं मांसं च विदित्वा वां हास्यत्यसाविति धिया ते स्त्रियो गृहवाट समागत्य वमितुं लग्ने । तदाऽऽषाढभूतिः कुड्योपरि चटिवा वाटकेऽवतीर्यवान्ते मांसखण्डमुदीक्ष्य व्यरंसीत् । परन्तु श्वशुराऽऽग्रहेण तयोर्जीविकार्थं नृपान्तिकमागत्य भरतनाटकं प्रारब्धवानसौ । तस्मिंश्च भरतचक्रीव षोडशशृङ्गारसज्जितः स आदर्शभवनमागत्यैकत्वभावनां भावयन्नचिरादेव शुभध्यानमहिम्ना केवलज्ञानमाप । शासनदेवता तदैव साधुवेषं वितीर्य स्वर्णकमलाssसनं विरचितवती । तत्राssसीनः स धर्मदेशनां ददिवान् । तामाकर्ण्य राजा, राज्ञा, सहस्रराजकुमारैश्च सार्धं तत्पार्श्वे दीक्षां ललौ । ततोऽसौ शिष्यमण्डल्या परिवृतस्ततो विहृत्य गुरोः पार्श्वमागात् । तदा गुरुरपि भावनां भावयन् केवली जज्ञे । यथाऽऽपाढभूतिः कपटेन रूपं परावर्त्य मोदकाँलेभे, तथाऽन्यैः साधुभिर्मायापिण्डं नैवाऽऽदेयम् ।
लोभोपरि सिंहकेसरियासाधुकथा
(४) अथैकदा चम्पानगर्यामुत्सव दिवसे कृतमासक्षपणः कश्चिन्मुनिः सिंहकेशरियामोदकेनैव मयाऽद्य पारयितव्यमित्यभिगृह्य तत्कृते प्रति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 401 402 403 404 405 406 407 408