Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 380
________________ नवमं व्याख्यानम् | ( ३३५ ) यात्रां कुर्वतां करादांनमुज्झाञ्चकार । तदन्ते सङ्केन सार्धमसौ राणकपुरादितीर्थानां यात्रां सुखेन कृतवान् । तत्र ' झालाकल्याणजी' मेदपाट पवित्रयितुमाचार्यं भृशमाजग्राह । तदभ्यर्थितस्तदिश्येव स विजहे । अधिमार्ग खाणोरग्रामे द्वे, देवकुलपाटके चैकम, नाहीग्रामे एकाम्, अबोटापुर्यामेकाम्, एवं पञ्चप्रतिष्ठां कृत्वाऽयमुदयपुरमागत्य चातुर्मासमकृत । ततो दशबादलाऽभिधाने राजहर्म्ये चतुर्मासीं चत्रिवान् । अत्र हि महाराणा जगत्सिंहस्तद्देशनाश्रवणेन पीछोलाSSख्याने, उदयसागराभिधाने महासरोवरे च मीनानां घातनं ग्रहणं च १, राज्याभिषेकदिवसेमारीपालनम् २, भाद्रपदे जीवानामहिंसनम् ३, मचिन्ददुर्गे जीर्णकुम्भलविहाराऽऽख्यचैत्योद्धरणम् ४, इतीमाञ्चतुरो नियमानग्रहीत् । तद्दिवसात्कुमारपालनरनाथो हेमचन्द्राचार्यमिव महाराणा विजयदेवसूरिं सम्मानयितुमलगत् । अयमाचार्यो हि मालवेऽवन्तिका दौ, दक्षिणे बीजापुरवदनीपुरादौ, कच्छदेशे भुजनगरादौ, धन्वनि जाबालिपुरमेदिनीपुरादौ जीर्णोद्धारपूर्वकं शतशो जिनबिम्बानां प्रतिष्ठाञ्जनशलाका अकरोत्, अदाच्चाऽनेकश्रमणेभ्यः पंन्यासपदम्, पाठकपदमाचार्यपदञ्च । इत्थमेष यवनराजानने का हिंसां त्याजयित्वाऽऽर्हतधर्माभिमुखान् कुर्वन् विजयसिंहसूरिप्रमुख मुनिवरैः शतशः सत्रा विहरन् प्रभावकत्वपद भागजायत । अमुमिञ्जीवति सति कियन्त्यपि चित्राणि कार्याणि जातानि । तथाहिसं० १६७३ तमे वर्षे विनिर्गतोपाधिमतानुयायिन्यौ खंभातनिवासिनो देवचन्द्रश्रेष्ठिनो द्वे भार्येऽवर्तेताम् । कालान्तरे च श्रेष्ठी मृत्वा देवीभूय ते स्वस्त्रियों देवसुरेरुपासिन्यौ विधाय स्वयमष्टादश देवैस्तद्भक्तिमकरोदित्येकमाश्चर्यम् । गोघाबन्दरे सोमाख्यश्रेष्ठिनः कुटुम्बवर्गो देवसूरेर्विमुखीबभूव, केवलमेक एव श्रेष्ठी सूरिं जुषमाण आसीत् । स च कालं कृत्वा देवत्वमधिगत्य सकलं स्वकुटुम्बमेतद्भक्तमकार्षीदिति द्वितीयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408