Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 378
________________ नवमं व्याख्यानम् । ( ३३३) प्रतिमा यवनैः खण्डिताऽऽसीत् , अत एव तत्रत्यसङ्घस्तत्प्रतिमां नवां कारयित्वा नडियादे प्रेषीत् तस्या अप्यञ्जनशलाकाऽस्यामेव प्रतिष्ठायाममुना विजयदेवसूरिणाऽकारि । अस्थापि च निजकरकमलाभ्यामिलादुर्गस्थितसमुद्धारितं सुचैत्ये । अथैकदा स्तम्भतीर्थस्थितमेनमाचार्य मण्डपाचलादकब्बरबादशाहसूनुर्जहांगीरशाह आमन्त्रणपत्रं प्रदाय समायत । तत्र गमनेनाऽनेकविधलाभपर्यालोचनया सोऽपि ततो विहृत्य क्रमशस्तत्राऽऽगात् । तदा जहांगीरशाहस्तेजोमयीं तन्मूर्तिमालोक्य संश्रुत्य च पीयूषस्यन्दिनीं विद्वत्ताऽऽढ्यां तद्देशनां नितरां प्रससाद । ततो निजकृताऽद्भुताऽद्भुतप्रश्नोत्तरश्रुत्या च वैपक्षिकजनजानतो विभ्रमस्तन्मनसस्तदैव निरगच्छत् । अब्रवीच्चैवम्-श्रीहीरविजयसूरेः पट्टाधिरोही सर्वाधिपतिश्च भवितुमर्हत्ययमेव विजयदेवसूरिः । ततो महामहं वितत्य — जहांगिरीमहातपाः' इति विरुदं विजयदेवसूरये ददिवान् । ___ आचार्यस्ततो विहृत्य गुर्जरं गत्वा सौराष्ट्रदेशीयद्वीपबन्दरमागत्य फिरङ्गीवादशाहस्याऽत्याग्रहेण चतुर्मासद्वयीं तस्थिवान् । ततो विहृत्य हालारप्रान्तीयनवानगरमागत्य भव्याञ्जनान् प्रतिबोध्य, सिद्धाचलतीर्थयात्राञ्च कृत्वा स्तम्भतीर्थे चतुर्मासी यावदतिष्ठदसकौ । तदनु ततो विहृत्य सांभलीनगरमगात् । तत्राऽयं मासत्रयीं तीव्रक्रियानुष्ठानं विदधत्सूरिमन्त्रमजापीत् , अकार्षीच्च सङ्घाऽऽग्रहेण चातुर्मासं तत्रैव । तदनन्तरं महता महेन द्वे प्रतिष्ठे विधिवद्विधाय तस्माद्विहृत्य समागतवानीडरदुर्गम् । अत्रापि तिस्रः प्रतिष्ठाः कृत्वा सह सङ्घनाऽऽरासणतीर्थयात्रामकृत । ततः पोसीनानगरमागत्य पञ्चजीर्णचैत्यानि समुद्धार्य प्रतिष्ठापयाम्बभूव, तस्मिन्नेवाऽवसरे आरासणतीर्थहेतवेऽपि मुलनायकबिम्बाञ्जनशलाकाञ्चके । ततः कतिपयग्रामेषु जनान् धर्ममुपदिशन्नेष राज्ञः कल्याणमल्लस्याऽत्याग्रहादिलादुर्गमाजगाम । अत्र सुश्रावक-सहजूमहेभ्यप्रारब्धमहामहेन सं० १६८१ वर्षे वैशाखशुक्लषष्ठ्यां विजयसिंह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408