Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 381
________________ ( ३३६ ) श्री कल्पसूत्रार्थप्रबोधिनी. अथैकदा स सूरिर्मण्डपाचलं व्रजन्मार्गे सेहरखीग्रामवासिपर मारठक्कुरसूनुः कर्मानामा प्रेतग्रस्तो लोकान् हन्तुं परितो धावमानः कृपयाऽमुना सूरिणा शिरसि वासः क्षिप्त्वा प्रेतमुक्तश्चक्रे, इति तृतीयम् । अहमदा बादे कस्यचिन्महाजनस्य तनयो विक्षिप्तचेता आसीत् । सोऽप्यनेन शिरसि करकमलं निधाय स्वास्थ्यमनायीति तुरीयम् । एवं मेडतानगरे खीमसरागोत्रीयथानाशाहो नवमासी क्षेत्रपालेनाऽभिभूयमान आसीत्, तस्यापि मस्तके सूरिणा वासक्षेपे कृते क्षेत्रपालः स्वमन्तुं चमयित्वा पलायाञ्चक्रे इति पञ्चमम् । गुर्जरमरुदेशयोरेष सूरिरनेकधादुष्कालपीडितासु जनतासु निजवशम्वदैर्देवैः शान्तिमचीकरच्च । इत्थमेष आचार्यस्तपोगच्छे चरमः प्रभावको जगद्गुरोहरविजयसूरेः प्रशिष्य आसीत् । असौ निजासने विजयसिंहरिं नियम्य विक्रमीय १६८५ तमे वर्षे स्वर्गवासं कृतवान् । इति स्थविरावल्यधिकारः । १३६ सदृष्टान्तसाधुसमाचारी I " ( १ ) प्रावृषि गृहमेधिभिरात्मार्थमाच्छादन - विलेपनादिसकलोपचारकरणेन प्रासुकीकृते सदने आषाढपूर्णिमातः पञ्चाशत्तमे दिवसे कर्त्तव्यमेव पर्युषणम् । तच्च भाद्रशुक्लपञ्चम्यादिकार्त्तिक पूर्णिमान्तं सप्ततिदिनात्मकम् । चेत्प्रागेवैतत्कुर्वीरंस्तर्हि गृहिणस्तदर्थमप्याऽऽस्तरणविलेपनाधारभेरन् कर्षकाश्च वृष्टिमवधार्य क्षेत्रं कृषेयुः, तद्दोषेण साधवोऽपि दृष्येरन्नतः प्रागेतन्नैव निश्चेतव्यमिति शाश्वती मर्यादा जागर्त्ति, इत्थमेवाऽकारि श्रीवीरविभुना । तदेव चान्वसारि गणधरप्रमुखैः शिष्योपशिष्यैरपि । परमेतदपवादतो भाद्रपदसितचतुर्थ्यामप्यनुष्ठातुं कल्प्यते, पञ्चम्याः परं तदनुष्ठानमकल्प्यमेव ' अंतरा वि य से कप्पड़' इत्यागमप्रामाण्यात् । ( २ ) प्रावृषि स्थितः साधुः साध्वी च परितः पञ्चक्रोशीं गमाSS Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408