Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 387
________________ (३४२) श्रीकल्पसूत्रार्थप्रबोधिनी. शनचिकीरपि साधुः साध्वी वा गुर्वाद्यनुज्ञातः समुज्झितदेहाभिमानः प्रत्याख्याताऽऽहारपानः, संलेखनां द्रव्यभावभेदभिन्नां जुषमाणः, कृतपादपोपगमनो जीवितमर्त्तव्यकालमनिच्छन् संस्तारके शयीतेति गुर्वादेशेनैव सकलकार्यकरणविषया सप्तदशी । (१८) प्रावृषि पर्युषणानन्तरं साधुः साध्वीवोपधि धर्मादौ सन्तापयितुमिच्छेत्तर्हि तावन्तङ्कालं तत्पश्यस्तत्र तिष्ठेत् , कमप्यन्यं वा तद् द्रष्टुं नियोज्य कार्यान्तरं विदध्यादितरथा नेत्युपधिसन्तापनविषयाऽ. ष्टादशी। (१९) चतुर्मास्यामनभिगृहीतशय्यासनकः साधुः साध्वी वा मणिकुहिमभूमितलादावपि हस्तोन्नतसुस्थिरपीठफलकादिमाश्रित्यैव तिष्टेत् । तच्च पौनःपुन्येन प्रतीक्षेत, घर्मे तापयेन्नोचेजीवविराधना संयमविराधना च स्यादिति शय्याऽऽसनग्रहणविषयकोनविंशतितमा । (२०) प्रावृषि साधूनां साध्वीनाञ्चोच्चारप्रस्रावभूमित्रयी कल्पतेदूरे मध्ये समीपे च । ताश्च प्रत्यहं प्रतिलेखनीयाः, हेमन्तग्रीष्मयोरिव वर्षासु न कर्त्तव्यम् । यतः प्रावृषि हरितकायजीवादेर्बाहुल्येन जननं जायत इति प्रस्रावोच्चारभूमिविषया विंशतितमा । (२१) प्रावृषि साधुभिः साध्वीभिश्चोच्चारमात्रकप्रस्तावमात्रकश्लेष्ममात्रकाणीति त्रीणि ग्राह्याणि । तदभावे समयातिकमाद् वेगरोधे चाऽऽत्मविराधना, वर्षति च मेघे बहिर्गमनात्संयमविराधना स्यादिति मात्रकविषयिण्येकविंशतिततमा। (२२ ) युवानः साधवस्तरुण्यः साध्व्यश्च चतुर्भिश्चतुर्भिर्मासैः, वृद्धा षड्षण्मासैः, स्थविराः प्रतिवर्षेण कचानां लुञ्चनमवश्यमेव कुरिन्। साम्वत्सरिकप्रतिक्रमणे तु गोलोममात्रेणापि केशेन शिरसि नैव भवितव्यम् , नो चेदप्कायविराधना यूकादेरुत्पत्तिश्च जायेत, कण्डूयने तु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408