Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala
________________
( ३३० )
श्री कल्पसूत्रार्थ प्रबोधिनी.
1
Sकारिषत । एतस्य विहारे प्रतिस्थानं विदुबामादरो याचकानां दान सम्माने, पदे पदे मौक्तिकैः स्वस्तिकरचनाः, स्वर्णकुसुमैर्वर्धापनानि च भवन्ति स्म । वैक्रमीय १६२८ वत्सरे फाल्गुन शुक्लसप्तम्यामहमदाबाद स्थाsकमीपुरप्रतो ज्यां निजगुरुभ्रात्रे जयविमलाभिधानाय मूलाश्रेष्ठिविहित महोत्सवेनाऽऽचार्यपदं ददित्वा विजयसेन सूरिरिति कृतवान्नाम । कृतवांश्च स्वकीयपट्टाधिकारिणम् । तस्मिन्नेवाऽवसरे लोंकागच्छीय पूज्यमेघर्षेः पञ्चविंशतिशिष्यैः सह तपोगच्छीयदीक्षां दत्त्वा विधाय च स्वशिष्य मुद्योतविजयेति नाम धृतवान् । शिष्या द्विसहस्रं श्रमण्यश्च चतुःशतमभूवन् । तेषु पंन्यासाः १५१, जैनविद्वत्तमा उपाध्यायाश्च सप्ताऽऽसन् । तच्छिष्येषु विमल- विजय - सागर - सुन्दरप्रमुखा अनेकाः शाखाः, आनन्द - हर्ष - सौभाग्य- विशाल - कुशलाऽऽदयः प्रशाखाश्चानेका बभूवुः । यदेतत्प्रशिष्याणां समुदायोऽपि भूयानासीत् । नानामुनिपरिवारमण्डितैतद्विहारे युगप्रधान समानमेवातिशयत्वमदृश्यत ।
वैक्रम १६३९ वस्सरी यचतुर्मासानन्तरं गन्धारबन्दरतो विहृत्य सौराष्ट्र - गुर्जर - मेद पाट - - मालवेषु प्राचीन जैनतीर्थयात्राचिकीः पथक - माssगतग्रामेषु निजदेशनाऽमृतं वर्षं वर्षं भव्याञ्जनांस्तपर्यन्नकब्बरपातिसाहस्याऽऽमन्त्रणेनाऽसौ विजयहीरसूरिज्येष्ठकृष्णत्रयोदश्यां फतेपुरसीकरीमागत्य, साहमिहोत्सवेन नानद्यमानेषु नानाविधवादित्रेषु महताऽऽडम्बरेण पुरम्प्रविश्य, जगमल्लकच्छवाह महेभ्यसद्मनि तस्थिवान् । तत्रैनं सर्वसम्मान विधान पुरस्सरं बादशाहः स्वसभायामाकारयत् । असौ च भूयो भूयः कृतशास्त्र गोष्ट्या बादशाहमकरोजीवदयानुपालिनम् । तदुपदेशेन प्रतिबुद्धो राजाऽकव्वरो गुर्जर सौराष्ट्रदेशीय १ मेवात - मण्डलीय २ मरुधरदेशीय ३ मालवदेशीय ४ पञ्चालदेशीय ५ सार्थे रक्षितुं
१ देव विमलरचित - हीरसौभाग्यकाव्ये त्रिंशद्भिर्वीरविद्याधरकृत- हरिविजयस लोकाऽऽख्यभाषाकाव्ये च सप्तविंशतिभिः शिष्यैः सहैतद्दीक्षामुवाच ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408