Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 372
________________ नवमं व्याख्यानम् । ( ३२७ ) चार्य सर्व सङ्घः । सूरिरब्रवीत्-भद्र ! चिन्तां त्यज, एतदपहारिणमद्यदिनाविंशतितमे दिवसे दीव्यन्तमाघाटपुरस्थं भवद्भटो नूनं ग्रहीष्यति । समस्तमाभूषणमेकस्यां वाप्यां शिलातलेऽमुना गोपितं वरीवृत्यते । सर्वं श्रद्दधानः संघाधिपति दैव स्वभट तत्र प्रेष्य तथावस्थं चौरं गृही. त्वा लात्वा च सर्वमाभूषणं निबध्य च गाढं स्वान्तिकमानीनयत् । ततो भगवतः सकलाऽऽभरणं परिधाप्य गुरोराज्ञया तं स्तेनममुञ्चत । तदनन्तरमाचा पुरस्कृत्याऽऽघाटनारमुपगत्तवान् सङ्घः। अथाऽसौ तन्नगराद्विहृत्य नाडलाई ग्राममागत्य चतुर्मासी तत्रैव तस्थिवान् । अत्र स एव विप्रबालः केसियानामा नूनं त्वच्छिरः कपालमादास्यामि, इति पुरा कृतप्रतिज्ञोऽधिगताऽनेकसिद्धविद्यो योगिवेषं कृत्वा व्याख्यानवेलायां सदसि समायातः । स च निजजटाजूटतः फणिद्वयं महाभीषणं निर्गमयाञ्चकार, तेन सर्वे सभ्याः क्षोभमापन्ना भृशमाचुकुशुः । तत आचार्यस्तत्कालमेव मुखवस्त्रिका द्विधाकृत्य नकु. लद्वयीमजीजनत् , तौ च परिसरन्तौ भोगिनौ पश्यत्सु सर्वेषु गृहीत्वा निरगच्छतां बहिः । ततः सर्वे शान्तिमापुः । अयमेव योगी पुनरेकदा श्रमणीमेकां प्रमत्तामहत्त्रतिमाञ्च विमुखां कुत्वाऽऽचार्यसमीपभागात् । समायातमेनं सम्मान्याऽऽसन्नाऽभिमन्त्रितपट्टान्तरे समुपावेश्य घटी. द्वयमाललाप सः । गोचरीवेलायामाचार्य उत्तिष्ठति सति योग्यपि समुत्थितुमलगत्, परन्तु पट्टस्य संसक्तत्वेन समुत्थितुमक्षमो भृशं खिद्यमानः, किङ्कर्त्तव्यतामूढः, स योगी मनसि विवेद-साव्याः प्रति. मायाश्च वैरूप्यकरणस्य फलं मयका सम्प्रत्येषोऽनुभावयते । ततोऽष्टोत्तरशतकूपोदकमानाय्य मन्त्रितेन तेनोदकेन तयोः सजीकरणानन्तरमाचार्यों योगिनं तत्पीडातोऽमोचयत् । अथैकदा योगी राजानं विज्ञप्य यशोभद्रसूरि चर्चार्थमाकारयाञ्चके । ततः सूरी राजसदसि समागत्य पश्यत्स्वेव नृपादिवर्गेषु मान्त्रिक शास्त्रीयश्च वादं विधाय, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408