Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 370
________________ नवमं व्याक्यानम् । ( ३२५ ) तत्र चानकाद्वजातयिर्वणिग्जातयिश्च शिशुभिः सहाऽसावभ्यसितुमलगत् । अथैकदा केसियाऽऽख्य-द्विजतनुजस्य मसिपात्रमेष जग्राह, तच्चाऽऽदीयमानमेव पाणेः पतित्वाऽस्फुटत् । तदनु तेन शिशुना याचिते मसिपात्रे तद्विशिष्टं तत्तुल्यमन्यद्दातुमलगदसौ । तदोवाच सः - अहं तदेव लास्यामि, तदलाभे तव शिरःकपालमेव, तर्ह्येव मां ब्रह्मप्रभवमवगच्छेः । तदुत्तरमदात्सुधर्मा - चेदहं मृत्वापि त्वां न हन्यां तर्हि वणिक्पुत्रो न स्यामिति तथ्यं विदाङ्कुरु । ततो नवाऽब्दिकः सुधर्मा पित्रोरादेशमादाय श्री ईश्वरसूरिपार्श्वे दीक्षामाददिवान् । अर्थातवांश्चाऽचिरादेव श्रुताध्ययनीयानि । ततोऽसौ मुडाराग्रामे बदरीदेवीमाराध्य वादिविजयित्वमध्यगच्छत् । तदनु गुरुरस्मा आचार्यपदं दत्त्वा यशोभद्रसूरिरित्याख्यां कृतवान् । यावज्जीवमेष विकृतिषट्कत्यागेन कवलाऽष्टकमेव भोक्तुमभिजग्राह । एतदतिदुष्करत पोमहिम्नाऽनेकाऽतिशयांश्चाऽसौ लब्धवान् । अन्यदा गुरुणादिष्टोऽसौ पालीनगरमागात् । तत्र यस्यां दिश्यसौ स्थण्डिलार्थं याति स्म, तन्मार्गे सूर्यमन्दिर आसीत् । स चैतत्साधव्यकर्मणा प्रसद्य तस्मा एकामञ्जनकुपिकां सिद्धविद्यावल्याः स्वर्णाक्षरीयमेकं पुस्तकञ्च समर्पयाञ्चक्रे । तदञ्जनाऽभ्यक्तलोचनः स त्रिलोकीस्थं सकलं वस्तु करामलकमिव द्रष्टुं लग्नः । स्वर्णाक्षर पुस्तकेन च गगनगामिनी-रूपपरावर्त्तिनीप्रमुखाः सिद्धविद्याः शिक्षित्वाऽप्रेतनशिष्यादिष्वेतदर्हतामपश्यंस्तत्पुस्तकं पुनस्तत्रैव सूर्यमंदिरे बलभद्रमुनिना न्यासितवान् । स तु तत्पुस्तकात्पत्रत्रयं रक्षित्वा पुस्तकं तत्राऽतिष्ठिपत् । परन्तु सूर्यदेवेनाऽपहृतेषु तेषु बलभद्रो रोरुदीति स्म, ततो गुरोर्वचसा दिनमणिस्तस्मै तानि पत्राणि पुनर्ददौ । घोरतरदुष्करतपोविधानमाहात्म्येनाऽमुष्यांऽष्टापि महासिद्धयः समुत्पेदिरे । यहलेनैष प्रत्यहं चम्पा -ऽष्टापद - सम्मेतशिखर- शत्रुञ्जय - रैवताचलान | मेषां पञ्चानामपि तीर्थानां यात्रां कृत्वैवाऽभ्यवहरति स्म । सङ्घातिशयाऽभ्यर्थनादयं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408