Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 368
________________ नवमं व्याख्यानम् । ( ३२३ ) मन्त्रिकारिते कोरण्टनगरे च श्रीसङ्घकारिते मन्दिरे माघशुक्लपञ्चमीगुरुघस्रे धनुर्लग्ने ब्राह्मे मुहूर्त्ते रत्नप्रभसूरी रूपद्वयं कृत्वा ओशियायां मूलरूपेण, वैक्रियरूपेण कोरण्टके च प्रातिष्ठिपत् । " कतिपय पट्टावलीषु लिखन्त्येवम्- 'असौ सहस्रशो जिनप्रतिमाः प्रत्यष्ठापयत्, प्रायो दशलक्ष जैनेतरान् प्रतिबोध्याऽऽर्हतधर्मानुरागिणश्चक्रि वान्, कृतवांश्च महासङ्घन सहैकविंशतिवारान् सिद्धाचलीयां यात्राम् । ' एवमसौ जैनशासनमहोन्नतिं विधाय कृत्वा च मासिकीं संलेखनां सिद्धाचलोपरि स्वर्लोकमगात् । ' उएस' इत्यस्य ओशवंशस्य च निदानमेष एवास्ति । वीरनिर्वाणतः ' वीए बावीसे ' ओशवंशस्थापनां जल्पन्ति कियन्तः कुलगुरुत्रः, परमेतन्निर्मूलमेव । उपकेशगच्छचरित्रनाभिनन्दनोद्धारप्रबन्ध-उपकेश गच्छपट्टावलीप्रमुखा ग्रन्था वीरनिर्वाणात्सप्ततितमवर्षमेव निगदन्ति । आसीञ्चैष विद्याधरकुलोत्पन्नः पार्श्वनाथ सन्तानी य केशिगणधरप्रशिष्यश्चतुर्दशपूर्वधर्त्ता श्रुतकेवली । १३२ वृद्धवादि-सिद्ध सेनदिवाकरयोर्निबन्ध: श्री सुहस्तिसूरिशिष्याणामेको वृद्धसाधु रत्युच्चैरकाले पठन् राज्ञा दृष्ट्वाऽभाणि - भोः ! किमेवं मुसलमपि पुष्पयिष्यसि ? | नृपाऽवज्ञामसहमानः स वाग्देवीमाराध्य तत्प्रसादेन सर्वविद्यासु पटीयान् भूत्वा शृङ्गाटके मुसलमारोप्य फुल्लयामास, तेन च सर्वे नृपादयश्चमत्कृता जाता: । ततोऽसौ वृद्धवादिसूरिः प्राच्यलाटदेशमण्डन भृगुकच्छपुराऽलङ्कारिशकुनिकाविहारे समायातः । तत्र च ' यो मां जयेत्तस्याऽहं भविष्यामि शिष्यः' इति कृतप्रतिज्ञं विद्याऽखर्वगर्वधरं दक्षिणपथाऽऽयातं कर्णाटभ दिवाकराभिधानं शास्त्रचर्चायां विजित्य शिष्यमकरोत् । अयमेकदा गुरुमप्राक्षीत् भगवन् ! सकलमपि जैनाऽऽगमं संस्कृतनयं चिकीर्षामि । गुरुराख्यत् त्वयाऽमुना तीर्थकृद्वचसामाशातनाऽ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408