Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 366
________________ नवमं व्याख्यानम् । (३२१) नीय यावज्जीवं मानभ्रष्टस्तथा कारितो राज्ञा यथा स जात्वपि जैनमुनिना सत्रा शास्त्रार्थस्य नामापि नो गृह्णीयात् । अतएवाऽष्टादशदेशाधिपा राजान एकीभूय हेमचन्द्रसूरये 'कलिकालसर्वज्ञ ' इति विरुदं ददुः। राज्ञः कुमारपालस्य कुलदेव्यै महिषबलिराश्विनचैत्रमाघमासीयनवरात्रोत्सवे शाश्वतमासीत् । तमाहतधर्मस्वीकारे कुमारपालो न्यवर्तयत् । तेन प्रकुपिता देवी राजानं पीडयितुं लग्ना । ततो हेमचन्द्रसूरिणा मन्त्रेणाss. कृष्य महाक्लिष्टा यावज्जीवं राज्ञो महिषबलिमजहात् । अग्रहीच स्वयमप्याजन्म सत्यमहिंसामयमार्हतमेव धर्मम् । असौ हेमचन्द्रसूरिराहते शासने प्रावचनिको धर्मोपदेष्टा, कविः, प्रभावकश्चाऽभूत्तमाम् । शासनसेवनमप्यसौ द्विधाऽकार्षीत्-तत्रैकन्तु राज्ञः प्रतिबोध्य जैनीकृत्वा तैश्च जैनसिद्धान्तं समस्तदेशे व्यतीतनत् । सर्वागसुन्दरसाहित्यविरचनेन जैनशासनस्य गुर्जरदेशमुखस्य च समुज्ज्वलीकरणमपरञ्च । एतद्रचितग्रन्थराशिमध्ये साम्प्रतम् १ योगशास्त्रम् , २ प्रमाणशास्त्रम् , ३ प्रमाणमीमांसा, ४ छन्दःशास्त्रम् , ५ अलङ्कारचूडामणिः, ६ अनेकार्थकोषः, ७ अभिधानचिन्तामणिः, ८ उणादिसूत्रवृत्तिः, ९ उणादिसूत्रविवरणम्, १० सवृत्तिधातुपाठः, ११ सवृत्तिधातुपारायणम् , १२ धातुमाला १३ निघण्टशेषः, १४ बलाऽबलसूत्रवृत्तिः, १५ शेषसंग्रहनाममाला, १६ शेषसंग्रहसारोद्धारः, १७ सवृत्तिविवरणलिङ्गानुशासनम् , १८ हेमवादानुशासनम्, १९ हेममञ्जूषा, २० महावीरद्वात्रिंशिका, २१ द्याश्रयकाव्यम्, २२ देशीनाममाला, २३ शीलो. ञ्छनाममाला, २४ वीतरागस्तवः, २५ त्रिषष्टिशलाकापुरुषचरित्रम्, २६ षड्दर्शनविचारः, २७ जातिव्यावृतिन्यायः, २८ अन्यदर्शनवादविवादः, २९ पाण्डवचरित्रम् , इत्यादयो ग्रन्था उपलभ्यन्ते । अमुष्य जीवनेsनेकचमत्कारिघटनावार्थोपलभ्यते, सा तु श्रीकुमारपालमहाकाव्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408