Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 367
________________ श्री कल्पसूत्रार्थप्रबोधिनी. कुमारपालप्रबन्धादिग्रन्थेभ्यो विज्ञैर्विज्ञेया । इत्थं शासनसेवां विधाय कलिकाल सर्वज्ञो हेमचन्द्राचार्यः ९ वर्षाणि गार्हस्थ्ये, १२ वर्षाणि दीक्षायाम्, ६३ वर्षाणि सूरिपदे चेत्थं सर्वायुश्चतुरशीतिवर्षाण्युपभुज्य विक्रमसंवत् १२२९ तमे वर्षे समाधिना स्वर्लोक मध्यवात्सीत् । आसीचायं कोटिकगणीयवज्रशाखीयचन्द्रकुलस्याऽऽचार्यः, परन्तु त्रिषष्टिशलाकापुरुषचरित्रस्य प्रशस्त्यामसौ स्वं पूर्णतल्लीयमलेखीत्, अमुनाऽनुमीयते - यन्मूलगच्छः कौटिकगण एव, पूर्णतल्लगच्छस्तु तदवान्तरभेदः । एतत्पट्टधरः प्रखर विद्वान् कतिपयग्रन्थानां रचयिता श्रीरामचन्द्रसूरिरभूत् । १३१ श्रीरत्नप्रभसूरिनिबन्धः- ( ३२२ ) श्रीकेशीस्वामिनः पहालङ्करिष्णुः स्वयभ्प्रभाचार्यः पञ्चशतमुनिमण्डल्या संजुष्यमाणः श्रीमालनगरे बहिरुद्याने स्थित आसीत् । तदवसरे वैताढ्य गिरिस्वामी मणिरत्नापरनामरत्नचूडविद्याधरो लक्षविधानैर्नन्दीश्वरद्वीपयात्रां विधाय सिद्धाचलतीर्थयात्राचिकीर्षुस्तेन पथा गच्छंस्तत्रोद्याने स्वयम्प्रभाचार्यमालोक्य सपरिवारो नीचैरवतीर्य तं यथावदवन्दत । तदा सोऽपि तस्मै हृदयग्राह्यां धर्मदेशनामदात् । तया प्रतिबुद्धो मणिरत्नः स्वपुत्राय राज्यासनं प्रदाय पञ्चशतविद्याधरैः सार्धं तत्पार्श्वे दीक्षां ललौ, स्थित्वा च गुरुसन्निधावचिरादेवाऽनवरताऽभ्यासेन चतुर्दशपूर्व धारी जज्ञे । ततो योग्यं तमवगत्य वीरनिर्वाणतो द्विपञ्चाशत्तमे वर्षे गुरुस्तरमा आचार्यपदं प्रदाय ' श्रीरत्नप्रभसूरिः' इत्याख्यां दधे । ततोऽसौ निजोपदेशेन चमत्कारिप्रभावदर्शनेन च राजेोपलदेवादिसपादलक्षक्षत्रियांस्तन्मन्त्रिण ऊहड - ऊधराद्यष्टादशसहस्रमहाजन कुटुम्बांच प्रतिबोध्य महाजनसङ्घमोशवंशञ्च स्थापयाञ्चक्रे । एवमेषां क्षत्रियाणां कुलदेवीं चण्डिकामपि दयाधर्मरसिकां कृत्वा 'सत्यकामाता' इत्याख्यां स्थिरयामास । श्रीवीरनिर्वाणतः सप्ततितमेऽब्दे ओशियानगरे ऊहड Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408