Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 358
________________ नवमं व्याख्यानम् । एकद्वित्रिचतुःपञ्च षण्मे न कमनेनकाः । देवबोधे मयि क्रुद्धे, पण्मेन कमनेन काः ॥ १ ॥ S इमं श्लोकं लिखित्वा तत्रत्यान् सकलान् विदुष उवाच - भोः ! पण्डिताः ! ' श्लोकमेनं षण्मासैरपि व्याख्यात, तदभावे विजयपत्रं मे ददत |' परिपूर्णेऽपि तदवधौ कोऽपि विद्वांस्तच्छ्रेोकार्थं कर्त्तुं नाऽचीकमत । तदवसरे राजानं गदितवानम्बाप्रसादो मन्त्री - स्वामिन् । एतस्यार्थं वक्तुमको वादिदेवसूरिरेव शक्तिं बिभर्त्ति नाऽपरः । स चाऽधुनाऽत्रैत्र जैनीयोपाश्रये वर्तते, अतः स एव पृच्छ्यताम् । नरनाथस्तदैव श्लोकेन सह प्रार्थनापत्रं तदन्तिके प्राहिणोत् । देवसूरिरपि तव गुरोरादेशमा श्रित्य " एकं प्रत्यक्षमात्रं चार्वाकीयम् द्वे - प्रत्यक्षानुमाने सौगतवैशेषिकयोरभिमते, त्रयः - प्रत्यक्षानुमानाऽऽगमाः कापिलाः, चत्वारःप्रत्यक्षानुमानोपमानाऽऽगमा नैयायिकीयाः, पञ्च- प्रत्यक्षानुमानोपमानापत्त्याऽऽगमाः प्रभाकरीयाः, षट्- प्रत्यक्षानुमानोपमानाऽर्थापत्त्याऽऽगमाऽभावा मैमांसका एते सकलाः प्रागुक्ता षण्मा प्रमाणं यस्य तादृशे मयि देवबोधे, पण्डिते, कुद्धे सति को ब्रह्मा च मः शिवश्च नस्तरणिश्च, ईर्लक्ष्मीस्तस्या नो नेता भर्त्ता विष्णुश्चैतेषां द्वंद्वे ते ते च कान्ति शब्दायन्त इति का जल्पाकाश्चेति कर्मधारये ' कमनेनकाः ' ब्रह्म- शिव-सूर्य- विष्णवो वक्तारो न भवन्ति, किन्तु मूकन्त्येव । तर्हि षण्मासा माऽवधिर्यस्य तेन कमनेन - कामुकेन मनुष्येण का वार्त्ताः ?, अमीषां का गणनाः इति तदर्थं वैशद्येन विलिख्य राज्ञः समीपे प्रैषीत् । तद्दर्शनेन देवबोधप्रभृतिविद्वन्मण्डली सकलापि वादिदेव सूरिमतोष्टवीत् । "" Jain Education International ( ३१३ ) तत्रत्यः सर्वर्द्धिकः श्रष्ठी नाहडाSSख्यः समेत्य नमस्कृत्य च सूरिमाचष्ट - प्रभो ! कोऽपि मे शुभादेशः क्रियताम्, येन मे लक्ष्मीः सदु ४० For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408